________________
अधिकार नवमो - नक्षत्र योग
१४३
तद्यथा-पुष्योऽश्लेषा च, उपरि च तिष्ठन्त्यष्टौ, ते त्रिंशता गुण्यन्ते, जाते द्वे शते चत्वारिंशदधिके२४०, तयोः सप्तषष्ट्या भागे हृते लब्धास्त्रयो मुहूर्ताः एकस्य च मुहूर्तस्यैकोनचत्वारिंशत्सप्तषष्टिभागाः, अस्मिन् पुस्तके सर्वत्रापि अवमरात्राणां पातानमेवाङ्गी कृतं ज्ञातव्यम् तेन न किञ्चद् सङ्गतम् →तत आगतं मघानक्षत्रस्य त्रिषु मुहूर्तेष्वेकस्य च मुहूर्तस्य सत्केष्वेकोनचत्वारिंशत्संख्येषु सप्तषष्टिभागेषु चन्द्रेण युक्तेषु पञ्चदशकानन्तरं पंचम्यां सूर्य उदित इति, तथा युगे प्रथमदिवसे प्रतिपदि केन नक्षत्रेण सह युक्तश्चन्द्र इति चिन्तायां पाश्चात्ययुगपर्वसंख्या ध्रियते चतुर्विशं शतं १२४, तत् पंचदशभिर्गुण्यते, जातानि षष्टयधिकान्यष्टादश शतानि १८६०, युगे च त्रिंशदवमरात्रा इति तेभ्यस्त्रिंशत्, पात्यते, जातान्यष्टादश शतानि त्रिंशदधिकानि, तेषां व्यशीत्या भागो हियते, लब्धा द्वाविंशतिः उपरि न्यस्यते, न्यस्य च चतुर्भिगुण्यते, जाताऽष्टाशीतिः, शेषमधस्तादुद्धरति षड्विंशतिः२६, तत्रोपरितनराशेरेकविंशतिरभिजितः शोध्यते, स्थिता पश्चात्सप्तषष्टिः तया च किलैकं नक्षत्रं लभ्यते, अधस्ताच्च षड्विंशतिरिति सर्वसङ्कलनया सप्तविंशतिरपि नक्षत्राण्युत्तराषाढापर्यन्तानि शुद्धानि, तत आगतमुदयसमय एव अभिजिन्नक्षत्रं चन्द्रेण सह योगमुपयातीति, तथा युगे द्वितीयेऽहोरात्रे द्वितीयायां केन नक्षत्रेण सह युक्तश्चन्द्र ? इति चिन्तायां पाश्चात्या तिथिरतिक्रान्ता प्रतिपल्लक्षणा तत्सङ्ख्या एकको ध्रियते, स द्वयशीत्या भागं न सहते, ततः सप्तषष्टिभागीक्रियते, तस्मादेकविंशतिरभिजितः शोध्यते, स्थिता पश्चात् षट्चत्वारिंशत् ४६, सा मुहूर्तकरणार्थं त्रिंशता गुण्यते, जातानि त्रयोदश शतान्यशीत्यधिकानि १३८०, तेषां सप्तषष्ट्या भागो ह्रियते, लब्धा मुहूर्ता विंशतिः २०, स्थिता पश्चाच्चत्वारिंशत् ४०, आगतं श्रवणनक्षत्रस्य विंशतिर्मुहूर्तेषु एकस्य च मुहूर्तस्य चत्वारिंशति सप्तषष्टिभागेषु चन्द्रेण भुक्तेषु युगे द्वितीयेऽहोरात्रे द्वितीयायां सूर्य उदयते, एवं सर्वत्रापि भावनीयम् ॥ १५५-१६० ॥ सम्प्रति यावान् सूर्यस्य नक्षत्रेण योगस्तावन्तमभिधित्सुराह
ગાથાર્થ :- પર્વ પંદરગુણ તિથિસહિત અવમાત્ર પરિહીન વ્યાસીથી વિભક્ત જે અંશો મળ્યા તે જાણવા. જે લબ્ધભાગ છે તેને નિયમા ચાર ગુણો કરવો અને એમાંથી અભિજિતના ૨૧ અંશો બાદ કરવા, શેષ રાશિમાંથી ૨૭ નક્ષત્ર મંડળો બાદ કરવા, અભિજિતુની બાદબાકીના સંભવમાં આ વિધિ હોય છે. ૧૫૨-૫૭ || શેષ
१. →चिहृद्धय मध्यवर्ति पाठ स्थाने "त्रयश्च मुहूर्ताः प्रागुक्तेषु पञ्चदशसु मुहूर्तेषु मध्ये प्रक्षिप्यन्ते जाता अष्टादश मुहूर्ताः, तत आगतमुत्तराफल्गुनीनक्षत्रस्य अष्टादशमुहूर्तेषु एकस्य च" इति पु. प्रे. पार्श्वभागे ॥