________________
अधिकार नवमो - नक्षत्र योग
१४१
सेसाओ रासीओ रूवं घेत्तूण सत्तसट्ठिकया । पक्खिव लद्धेसु पुणो अभिजिइ सोहेउ पुव्वकमा ॥१५८॥ पंच दस तेरसऽट्ठारसेव बावीस सत्तवीसा य । . सोज्झा दिवड्डखेत्तंत भद्दवाई असाढंता ॥ १५९ ॥ एयाणि सोहइत्ता जं सेसं तं हविज नक्खत्तं ।
सेसा तीसगुणाओ सत्तट्ठिहिते मुहुत्ताओ ॥ १६० ॥ यस्मिन् दिने चन्द्रेण सह युक्तं नक्षत्रं ज्ञातुमिष्यते तस्माद्दिनात् प्राग् यानि पर्वाणि युगमध्येऽतीतानि तानि संख्यया परिभाव्य तत्संख्या ध्रियते, सूत्रे च पर्वसंख्याऽप्युचारात्पर्वेत्यभिहिता, पर्व-पंचदशतिथ्यात्मकमतस्तत् पंचदशगुणीकृतं पंचदशभिर्गुण्यते, गुणयित्वा च तेषां पर्वणामुपरि विवक्षितायास्तिथेः प्रागतीतास्तिथयस्ताभिः सहितं-युक्तं तत्पर्व क्रियते, किमुक्तं भवति ?- पंचदशगुणनानन्तरं पर्वोपरिवत्तिन्योऽतीतास्तिथयस्तन्मध्ये प्रक्षिप्यन्त इति, ततो येऽवमरात्रा अतिक्रान्तेषु पर्वसु गताः तैः परिहीनं क्रियते, ततोऽपनीयत इत्यर्थः, ततो व्यशीत्या भागो हियते, तत्र भागे यल्लब्धं ये चांशा अवतिष्ठमानाः तदेतत्सर्वं 'जानीहि' बुद्ध्या सम्यगवधारयेति भावः, लब्धं चोपरि स्थापय, अंशास्त्वधस्तात्, लब्धं च राशिरिति व्यवहियते, अंशाश्च शेषो राशिरिति, तत्र यद् भवति' वर्त्तते भागलब्धं तन्नियमाच्चतुर्गुणं कर्त्तव्यं, कृते च सति लब्धरूपाद्राशेरभिजितो नक्षत्रस्य सम्बन्धिन एकविंशति भागान् शोधय, शेषाणां तु राशीनां-अघस्तनवर्तिनां मध्यात्सप्तविंशतिसंख्यं नक्षत्रमण्डलं शोध्यं, सप्तविंशतिः शोध्या इत्यर्थः । अथोपरितनो राशिः स्तोकतयैकविंशतिरूपं शोघनं न सहते तत आह- 'सेसाओ' इत्यादि, 'शेषात्' अधस्तनरूपाद्राशेरेकं रूपं गृहीत्वा सप्तषष्टिभागीक्रियते, कृत्वा च पुनस्ते सप्तषष्टिभागा लब्धेषु-लब्धराशिमध्ये प्रक्षिप, प्रक्षिप्य च ततोऽभिजितं-अभिजिन्नक्षत्रसम्बन्धिन एकविंशतिभागान् ‘पूर्वक्रमात्' पूर्वक्रमानुसारेण शोधय, शोधयित्वा च पंचदशत्रयोदशाष्टादशद्वाविंशतिसप्तविंशतिरूपान् शोध्यान् ‘व्यर्द्धक्षेत्रान्' व्यर्द्धक्षेत्रपर्यन्तसूचकानेतानपि शोधय, एतदेव व्यक्तमाचष्टे-भद्रपदादीन् आषाढान्तान्-उत्तरभद्रपदान्युत्तराषाढापर्यन्तरूपान्,
१. इतोऽग्रे म. वि. संस्करणे (गाथा १७१) इयं गाथा अधिका दृश्यते- "पोट्ठवतादीणि ( ? त रोहिणि) पुणव्वसू य तध फग्गुणी विसाहा य । एते दिवड्डखेत्ता हवंति बितिया असाढा य ॥१७१॥ २. ज्ज आदाणं । नक्खत्तं नायव्वं, जमतीतं तस्स तु विसग्गो -जे. खं.