SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ज्योतिष्करण्डकम् षट्त्रिंशच्छतानि षष्ट्यधिकानि ३६६०, तेषामाद्येन राशिना १७६८ भागहरणं, लब्धे द्वे रात्रिन्दिवे२, शेषं तिष्ठति चतुर्विंशत्यधिकं शतं १२४, तत्रैकैकस्मिन् रात्रिन्दिवे त्रिंशन्मुहूर्ता इति त्रिंशता गुणने जातानि सप्तत्रिंशच्छतानि विंशत्याधिकानि ३७२०, तेषां सप्तदशभिः शतैरष्टषष्ट्यधिकैर्भागे हृते लब्धौ द्वौ मुहूर्त्ती २, ततः शेषच्छेद्यच्छेदकराश्योरष्टकेनापर्वत्तनाज्जातश्छेद्यो राशिस्त्रयोविंशतिः, छेदकराशिर्द्वे शते एकविंशत्यधिके, आगतं मुहूर्त्तस्यैकविंशत्यधिकशतद्वयभागास्त्रयोविंशतिः २३।२२१, एतावता कालेन द्वे अर्द्धमण्डले परिपूर्णे चरति, किमुक्तं भवति ?- एतावता कालेन परिपूर्णमेकं मण्डलं चंद्रश्चरति, तदेवं मण्डलकालपरिज्ञानं कृतं, साम्प्रतमेतदनुसारेण प्रतिमुहूर्तं गतिपरिमाणं चिन्त्यते, तत्र ये द्वे रात्रिन्दिवे ते मुहूर्त्तकरणार्थं त्रिंशता गुण्येते, जाताः षष्टिर्मुहूर्त्ता: ६०, तत उपरितनौ द्वौ मुहूतौं प्रक्षिप्तौ, जाता द्वाषष्टिः ६२, एषा सवर्णनार्थं द्वाभ्यां शताभ्यामेकविंशत्यधिकाभ्यां गुण्यते, गुणयित्वा चोपरितनाः त्रयोविंशतिः प्रक्षिप्यन्ते, जातानि त्रयोदश सहस्राणि सप्त शतानि पञ्चविंशत्यधिकानि १३७२५, एतदेकमण्डलकालगतमुहूर्त्तसत्कैकविंशत्यधिकशतद्वयभागानां परिमाणं, ततस्त्रैराशिककर्मावतारो, यदि त्रयोदशभिः सहस्त्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैरेकविंशत्यधिकशतद्वयभागानां मण्डलभाग एकं शतसहस्रमष्टानवतिशतानि लभ्यन्ते, तत एकेन मुहूर्तेन किं लभामहे ? राशित्रयस्थापना १३७२५ - १०९८०० - १ इहाद्यो राशिर्मुहूर्तगतैकविंशत्यधिकशतद्वयभागरूपस्ततः सवर्णनार्थमन्त्योऽपि राशिरेककलक्षणो द्वाभ्यां शताभ्यामेकविंशत्यधिकाभ्यां गुण्यते, जाते द्वे शते एकविंशत्यधिके, ताभ्यां मध्यो राशिर्गुण्यते, जातं द्वे कोट्यौ द्विचत्वारिंशल्लक्षाः पञ्चषष्टिः सहस्राणि अष्टौ शतानि २४२६५८००, तेषां त्रयोदशभिः सहस्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागो ह्रियते, लब्धानि सप्तदश शतान्यष्टाषष्ट्यधिकानि १७६८, एतावतो भागान् यत्र तत्र वा मण्डले चन्द्रो मुहूर्तेन गच्छति ॥ रविः-सूर्यः पुनस्तथाप्रविभक्तस्य मण्डलस्य सत्कानि अष्टादशभागशतानि त्रिंशानि-त्रिंशदधिकानि एकेन मुहूर्तेन गच्छति, एतदप्यवसीयते त्रैराशिकवलात्, तथाहिषष्ट्या मुहूत्र्तैरेकं शतसहस्रमष्टानवतिः शतानि मण्डलभागानां लभ्यन्ते, तत एकेन मुहूर्तेन कति भागान् लभामहे ? राशित्रयस्थापना ६० - १०९८०० - १ अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेर्गुणनं, जातः स तावानेव एकेन गुणितं तदेव भवतीति वचनात्, ततस्तस्याद्येन राशिना षष्टिलक्षणेन भागो हियते, लब्धान्यष्टादश शतानि त्रिंशदधिकानि १८३०, एतावतो १३२
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy