________________
अधिकार आठमो - चंद्र-सूर्य-नक्षत्र गति
१३३
भागान् मण्डलस्य सूर्य एकेन मुहूर्तेन गच्छति, तथा चोक्तं सूर्यप्रज्ञप्तौ- [सूत्र ८३] "ता एगमेगेणं मुहुत्तेणं चंदे केवइयाइं भागसयाई गच्छइ ? जं जं मंडलं उवसंकमित्ता चारं चरइ तस्स तस्स मंडलपरिक्खेवस्स सत्तरस अट्ठठे भागसए गच्छइ, मंडलं सयसहस्सेणं अट्ठाणउतीए सएहिं मंडलं छेत्ता । ता एगमेगेणं मुहत्तेणं सूरे केवइयाइं भागसयाई गच्छइ ? ता जं जं मंडलं उवसंकमित्ता चारं चरइ तस्स [तस्स] मंडलपरिक्खेवस्स अट्ठारसतीसे भागसए गच्छइ, मंडलं सयसहस्सेणं अट्ठाणउईए य सएहि छेत्ता" ता एगमेगेणं मुहुत्तेणं नक्खत्ते केवइयाइं भागसयाइं गच्छइ ? ता जं जं मंडलं उवसंकमित्ता चारं चरइ तस्स तस्स मंडलपरिक्खेवस्स अट्ठारसपणतीसे मागसए गच्छइ, मंडलं सयसहस्सेणं अट्ठाणईए य सएहिं छेत्ता । इति ॥ ततश्चन्द्रेभ्यः शीघ्रतराः सूर्यास्तेभ्योऽपि शीघ्रतराणि नक्षत्राणि इति ॥ ग्रहा अपि यदा वक्रानुवक्रगतिव्यतिरेकेण सामान्यतो गच्छन्तः चन्द्राद्यपेक्षया गत्या परिभाष्यन्ते तदा ते नक्षत्रेभ्यो मन्दगतयः सूर्येभ्यः शीघ्रगतयो वेदितव्याः, तारास्तु नक्षत्रेभ्योऽपि शीघ्रतराः, तथा चोक्तं सूर्यप्रज्ञाप्तावेव- [सूत्र ८३] "तो कहं ते सिग्घगई वत्थू आहियत्ति वएज्जा ? ता एएसि णं चंदिमसूरियगहगणनक्खत्ततारारूवाणं चंदेहितो सूरा सिग्घगई सूरेहिंतो गहा सिग्घगई गहेहिंतो नक्खत्ता सिग्घगई नक्खत्तेहिंतो तारा सिग्घगई, सव्वप्पगई चंदा सव्वसिग्घगई तारा" इति ॥ १४७-१४८ ॥ सम्प्रति प्रस्तुतप्राभृतवक्तव्यतोपसंहारमाह
जोयणगणणारहिया एस गई वणिया अहाथूरा । 'एषा' अनन्तरोदितस्वरूपा योजनगणनारहिता गतिः यथा स्थूला चन्द्रनक्षत्रसूर्याणां वर्णिता ॥
॥ इति श्रीमलयगिरिविरचितायां ज्योतिष्करण्डकटीकायां [चन्द्र-सूर्य-नक्षत्र गति प्रतिपादक ] मष्टमं प्राभृतं समाप्तम् ॥
१. (छाया) तत एकमेकेन मुहूर्तेन चन्द्रः कतिपयानि भागशतानि गच्छति ? यद्यमण्डलमुपसंक्रम्य चारं चरति तस्य मण्डलपरिक्षेपस्य सप्तदश अष्टषष्ठिर्भागशतानि गच्छति, मण्डलं शतसहस्त्रेणाष्टानवत्या शतै मण्डलं छित्वा । तत्रैकमेकेन मुहूर्तेन सूर्यः कतिपयानि भागशतानि गच्छति ? तत्र यद्यमण्डलमुपसंक्रम्य चारं चरति तस्य तस्य मण्डलपरिक्षेपस्याष्टादशपंचत्रिंशद् भागशतानि गच्छति, मण्डलं शतसहस्रेणाष्टानवत्या च शतैः छित्वा । तत एवमेकेन मुहुर्तेन नक्षत्राणि कतिपयानि भागशतानि गच्छन्ति ? यद्यमण्डलमुपसंक्रम्य चारं चरन्ति तस्य तस्य मण्डल परिक्षेपस्याष्टादशपञ्चत्रिंशद् भागशतानि गच्छन्ति, मण्डलं शतसहस्त्रेणाष्टानवत्या च शतैः छित्वा ॥
____२. (छाया) ततः कथं ते शीध्रगतयो वस्तून्याख्याता इति कथ्यते ? तत एतेषां चन्द्र-सूर्य ग्रहगण-नक्षत्रतारारूपाणां चंद्रेभ्यः सूर्याः शीध्रगतयः सूर्येभ्यो ग्रहाः शीध्रगतयो ग्रहेभ्यो नक्षत्राः शीध्रगतयो नक्षत्रेभ्यस्ताराः शीध्रगतयः सर्वाल्पगतय श्चन्द्राः सर्वशीध्रगतयस्ताराः ।