________________
अधिकार आठमो - चंद्र-सूर्य-नक्षत्र गति
१३१ भावना कार्या, तत्र मण्डलकालप्रमाणचिन्तायामिदं त्रैराशिकं-अष्टादशभिः शतैः पञ्चत्रिंशदधिकैः सकलयुगभाविभिरर्द्धमण्डलैरष्टादशशतानि त्रिंशदधिकानि, रात्रिन्दिवानां लभ्यन्ते, ततो द्वाभ्यामर्द्धमण्डलाभ्यामेकेन परिपूर्णेन मण्डलेनेति भावः, किं लभामहे ? राशित्रयस्थापना १८३५, १८३०, २, अत्रान्त्येन राशिना मध्यराशेर्गुणनाज्जातानि षट्त्रिंशच्छतानि षष्ट्याधिकानि ३६६०, तत्राद्येन राशिना १८३५ भागहरणं, लब्धमेकं रात्रिंदिवं, शेषाणि तिष्ठन्त्यष्टादश शतानि पञ्चविंशत्यधिकानि १८२५, ततो मुहूर्तानयनार्थमेतानि त्रिंशता गुण्यन्ते, जातानि चतुष्पञ्चाशत्सहस्राणि सप्त शतानि पञ्चाशदधिकानि ५४७५०, तेषामष्टादशभिः शतैः पञ्चत्रिंशदधिकैर्भागे हृते लब्धा एकोनत्रिंशन्मुहूर्ताः २९, ततः शेषच्छेद्यच्छेदकराश्योः पञ्चकेनापवर्तनाज्जातमुपरितनो राशिस्त्रीणि शतानि सप्तोत्तराणि ३०७, छेदकराशिस्त्रीणि शतानि सप्तषष्ट्यधिकानि ३६७, अत आगतमेकं रात्रिन्दिवं, एकस्य च रात्रिन्दिवस्यैकोनत्रिशन्मुहूर्ताः एकमुहूर्तस्य च सप्तषष्ट्यधिकत्रिशतभागानां त्रीणि शतानि सप्तोत्तराणि, १,२९,३०७।३६७। इदानीमेतदनुसारेण मुहूर्तगतिपरिमाणं चिन्त्यते- तत्र रात्रिन्दिवे त्रिंशन्मुहूर्ताः ३०, तेषूपरितना एकोनत्रिंशन्मुहूर्ताः प्रक्षिप्यन्ते, जाता एकोनषष्टिर्मुहूर्तानां, ततः सा सवर्णनार्थं त्रिभिः शतैः सप्तषष्ट्यधिकैर्गुण्यते, गुणयित्वा चोपरितनानि त्रीणि शतानि सप्तोत्तराणि प्रक्षिप्यन्ते, जातान्येकविंशतिः सहस्राणि नव शतानि षष्ट्यधिकानि २१९६०, ततस्त्रैराशिकं-यदि मुहूर्तगतसप्तषष्ट्यधिकत्रिशतभागानामेकविंशत्या सहजैनवभिः शतैः षष्ट्यधिकैरेकं शतसहस्रमष्टानवतिः शतानि मण्डलभागानां लभ्यन्ते तत एकेन मुहूर्तेन किं लभामहे ? राशित्रयस्थापना २१९६०-१०९८००-१ तत्राद्यो राशिर्मुहूर्तगतसप्तषष्ट्यधिक त्रिशतभागरूपस्ततोऽन्त्योऽपि राशिस्त्रिभिः शतैः सप्तषष्ट्यधिकैर्गुण्यते, जातानि त्रीण्येव शतानि सप्तषष्ट्यधिकानि ३६७, तैर्मध्यराशिगुण्यते, जाताश्चतस्रः कोटयो द्वे लक्षे षण्णवतिसहस्राणि षट् शतानि ४०२९६६००, तेषामाद्येन राशिनैकविंशतिसहस्राणि नव शतानि षष्ट्यधिकानीत्येवंरूपेण भागो हियते, लब्धान्यष्टादश शतानि पञ्चत्रिंशदधिकानि १८३५, एतावतो भागान् नक्षत्रं प्रतिमुहूर्तं गच्छति चन्द्रः पुनरेकेन मुहूर्तेन तथाप्रविभक्तस्य मण्डलस्य सत्कानि सप्तदश शतान्यष्टषष्टानि-अष्टषष्ट्यधिकानि गच्छति, तथाहि-इहापि प्रथमतश्चन्द्रमसो मण्डलकालो निरूपणीयः, तदनन्तरं तदनुसारेण मुहूर्तगतिपरिमाणं परिभावनीयं, तत्र मण्डलनिरूपणार्थमिदं त्रैराशिकं-यदि सप्तदशभिः शतैरष्टषष्ट्यधिकैः सकलयुगवर्त्तिभिरर्द्धमण्डलैरष्टादश शतानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्यामर्धमण्डलाभ्यामेकेन मण्डलेनेति भावः कति रात्रिन्दिवानि लभ्यन्ते ? राशित्रयस्थापना १७६८, १८३०, २, अत्रान्त्येन राशिना द्विकलक्षणेन मध्यस्य राशेर्गुणनाज्जातानि