________________
अधिकार-८ : यंद्र-सूर्य-नक्षत्र गति
तदेवमुक्तं सप्तमं प्राभृतं, सम्प्रति सूर्यनक्षत्रगतिप्रतिपादकमष्टमं प्राभृतं विवक्षुराह
नक्खत्तचंदसूराण गई च वोच्छं समासेणं ॥ १४५ ॥ चंदेहिं सिग्घयरा सूरा सूरेहिं होंति नक्खत्ता । अणिययगइपत्थाणा हवंति सेसा गहा सव्वे ॥ १४६ ॥ अट्ठारस भागसए पणतीसे गच्छई मुहुत्तेणं । नक्खत्तं चंदो पुण सत्तरससए उ अट्ठद्वे ॥ १४७ ॥ अट्ठारस भागसए तीसे गच्छइ रवी महत्तेणं ।
नक्खत्तसीमछेदो सो चेव इहपि नायव्वो ॥ १४८ ॥ अत ऊर्ध्वं नक्षत्रचन्द्रसूर्याणां 'समासेन' सक्षेपेण परिस्थूलप्रकारेणेत्यर्थः गतिं वक्ष्ये ॥ १४५ ॥ प्रतिज्ञातमेव निर्वाहयति-चंद्रेभ्यः सूर्याः 'शीघ्रतराः' शीघ्रतरगतयः, सूर्येभ्यो नक्षत्राणि शीघ्रतराणि, ये तु ग्रहाः- अङ्गारकादयस्ते सर्वेऽपि वक्रानुवक्रगतिभावतोऽनियतगतिप्रस्थाना भवन्ति ज्ञातव्याः ॥ १४६ ॥ अथ कथं चन्द्रेभ्यः शीघ्रतराः सूर्याः सूर्येभ्योऽपि शीघ्रतराणि नक्षत्राणि ? इत्यत आह-इह य एव प्राग् नक्षत्रसीमापरिज्ञाननिमित्तं मण्डलच्छेदोऽभिहितः, यथा मण्डलमेकेन शतसहस्रेणाष्टानवतिशतैश्च प्रविभज्यत इति, स एवाष्टानवतिशताधिकशतसहस्रप्रविभागो मण्डलच्छेद इहापि परस्परं गतिविशेषचिन्तायां ज्ञातव्यः, तत्र नक्षत्रमेकेन मुहूर्तेनाष्टानवतिशताधिकशतसहस्रप्रविभक्तस्य मण्डलस्य सत्कान्यष्टादशभागशतानि पञ्चत्रिंशानि-पञ्चत्रिंशदधिकानि गच्छति १८३५, कथमेतदवसीयते ? इति चेदुच्यते-इह प्रथमतो मण्डलकालो निरूपणीयः, ततस्तदनुसारेण मुहूर्तगतिपरिमाण