________________
अधिकार छटो - नक्षत्र परिमाण
११७ तेषां नक्षत्राणां अनन्तरोद्दिष्टानां यथाक्रममेव-प्रागुद्देशक्रमेणैव संस्थानं वक्ष्यामि, तथा 'मान' प्रमाणं नक्षत्रेषु तारकाणां वक्ष्ये, कथं वक्ष्ये ? इत्याह-यथा दृष्टं सर्वदर्शिभिःतीर्थकरैः ॥ १२६ ॥ तत्र 'यथोद्देशं निर्देश' इति प्रथमतः संस्थानं विवक्षुर्जम्बूद्वीपप्रज्ञप्तिसत्कं सङ्ग्रहणिगाथात्रयं पठति-इह नक्षत्राण्यभिजिदादीनि ततस्तमादिं कृत्वा संस्थाननिर्देशक्रमो वेदितव्यः, तद्यथा-अभिजिन्नक्षत्रं गोशीर्षसंस्थानसंस्थितं, श्रवणनक्षत्रं कासारसंस्थानसंस्थितं, धनिष्ठानक्षत्रं शकुनिपञ्जरसंस्थानं, शतभिषग्नक्षत्रं पुष्पोपचार संस्थानं, पूर्वभाद्रपदानक्षत्रमर्द्धवापीसंस्थानं, [उत्तरभाद्रपदाया अपि अर्द्धवापीसंस्थानं,] रेवतीनक्षत्रं नौसंस्थानम्, अश्विनीनक्षत्रमश्वस्कन्धसंस्थानं, भरणीनक्षत्रं भगसंस्थानं, कृत्तिकानक्षत्रं क्षुरधारासंस्थानं, रोहिणीनक्षत्रं शकटोद्धिसंस्थानं, मृगशिरोनक्षत्रं मृगशीर्षसंस्थानम्, आर्द्रानक्षत्रं रुधिरबिन्दुसंस्थानं, पुनर्वसुनक्षत्रं तुलासंस्थानं, पुष्यनक्षत्रं सुप्रतिष्ठितवर्द्धमानक संस्थानं, अश्लेषानक्षत्रं पताकासंस्थानं, मघानक्षत्रं प्राकारसंस्थानं, पूर्वफाल्गुनीनक्षत्रमर्द्धपल्यङ्कसंस्थान, उत्तराफाल्गुनीनक्षत्रमर्द्धपल्यङ्कसंस्थानं, हस्तनक्षत्रं हस्तसंस्थानं, चित्रानक्षत्रं मुखमण्डनसुवर्णपुष्पसंस्थानं, स्वातिनत्रक्षं कीलकसंस्थानं, विशाखानक्षत्रं दामनीसंस्थानं, अनुराधानक्षत्रमेकावलिसंस्थानं, ज्येष्ठानक्षत्रं गजदन्तसंस्थानं, मूलनक्षत्रं वृश्चिकलांगुलसंस्थानं, पूर्वाषाढानक्षत्रं गजविक्रमसंस्थानम्, उत्तराषाढानक्षत्रं सिंहनिषीदनसंस्थानम् ॥ १२७-१२९ ।। सम्प्रति ताराप्रमाणं प्रतिनक्षत्रं विवक्षुर्जम्बूद्वीपप्रज्ञप्तिसत्कं गाथाद्वयं पठति-'तिगे' त्यादि, अभिजिनक्षत्रं त्रितारं श्रवणनक्षत्रं त्रितारं धनिष्ठानक्षत्रं पञ्चतारं शतभिषग्नक्षत्रं शततारं पूर्वभद्रपदानक्षत्रं द्वितारं उत्तराभद्रपदानक्षत्रं द्वितारं रेवतीनक्षत्रं द्वात्रिंशत्तारं अश्विनीनक्षत्रं त्रितारं भरणीनक्षत्रं त्रितारं । कृत्तिकानक्षत्रं षट्तारं रोहिणीनक्षत्रं पञ्चतारं मृगशिरोनक्षत्रं त्रितारम् आर्द्रानक्षत्रमेकतारं पुनर्वसुनक्षत्रं पञ्चतारं पुष्यनक्षत्रं त्रितारं अश्लेषानक्षत्रं षट्तारं मघानक्षत्रं सप्ततारं पूर्वफाल्गुनी नक्षत्रं द्वितारं उत्तरा फाल्गुनीनक्षत्रं द्वितारं हस्तनक्षत्रं पञ्चतारं चित्रानक्षत्रमेकतारं स्वातिनक्षत्रमेकतारं विशाखानक्षत्रं पञ्चतारम् अनुराधानक्षत्रं चतुस्तारं ज्येष्ठानक्षत्रं त्रितारं मूलनक्षत्रमेकादशतारं पूर्वाषाढानक्षत्रं चतुस्तारं उत्तराषाढानक्षत्रं चतुस्तारं इदं नक्षत्राणां यथाक्रमं तारापरिमाणं ॥१३०-१३१ ॥ सम्प्रति प्रस्तुतवक्तव्यतोपसंहारं वक्ष्यमाणवक्तव्यतोपक्षेपं च कुर्वनाह-'एवम्' उक्तेन प्रकारेण नक्षत्राणाम्-अभिजि
१. एतदर्धवापी द्वयमीलनेन परिपूर्णा वापी भवती तेन सूत्रे वापी त्युक्तम्, अतः संस्थानानां न संख्यान्यूनता विचारणीय इति श्री शान्तिचन्द्रोपाध्यायैः जम्बूद्वीपप्रज्ञप्तिटीकायां समाहितमात्रार्थे पत्र ५०१-१ -इति पु. प्रे. टि.