________________
११८
ज्योतिष्करण्डकम्
दादीनां संस्थानानि तारकाणां च प्रमाणं भणितमत ऊर्ध्वं तेषामेव नक्षत्राणां यथाक्रमं नामानि देवताश्च वक्ष्यामि ॥ १३२ ॥
तत्र प्रथमतो नामान्याह
अभिई सवण धणिट्ठा सयभिसया दो य होंति भद्दवया । रेवइ अस्सिणि भरणी य कत्तिया रोहिणी चेव ॥ १३३ ॥ मिगसिर अद्दा य पुणव्वसू य पूसो य तहसिलेसा य । मंघ पुव्वफग्गुणी उत्तरा य हत्थो य चित्ता य ॥ १३४ ॥
साइ विसाहा अणुराहमेव जेट्ठा तहेव मूलो य । पुव्वुत्तरा असाढा य जाण नक्खत्तनामाणि ॥ १३५ ॥
इदं गाथात्रयमपि प्रकटार्थम् ॥ १३३ - १३५ ॥ सम्प्रति देवतानां नामानि विवक्षुराह -
बम्हा विण्हू य वसू वरुणो य अजो अणंतरो होइ । अभिवुड्डि पूस गंधव्वमेव परतो जमो होइ ॥ १३६ ॥
अग्ग पयावइ सोमे रुद्दे अदिई विहस्सई चेव । सप्पे पिइ भग अज्जम सविया तट्ठा य वाऊ य ॥ १३७ ॥ इंदग्गी मित्तोऽवि य इंदे निरई य वा ( आ )उ विस्सा य । नामाणि य देवयाणं एत्तो सीमंपि मे सुणसु ॥ १३८ ॥
एगं च सयसहस्सं अट्ठाणउई सया व पडिपुण्णा । एसो मंडलछेओ सीमाणं होइ नायव्वो ॥ १३९ ॥
अभिजिदादी नक्षत्राणामधिपतयो - देवता यास्तासां यथाक्रमममूनि नामानि तद्यथाअभिजिन्नक्षत्रस्याधिपतिर्देवता ब्रह्मा श्रवणस्य विष्णुर्धनिष्ठाया वसुः शतभिषजो वरुणः पूर्वभद्रपदानक्षत्रस्याज उत्तरभद्रपदानक्षत्रस्याभिवृद्धिः रेवतीनक्षत्रस्य पूषा अश्विनीनक्षत्रस्य 'गन्धर्वः' गन्धर्वो नामाश्चः भरणीनक्षत्रस्य यमः कृत्तिकानक्षत्रस्याग्निः रोहिणी नक्षत्रस्य प्रजापतिः मृगशिरोनक्षत्रस्य सोमः आर्द्रानक्षत्रस्य रुद्रः - भवः पुनर्वसुनक्षत्रस्यादितिः पुष्यनक्षत्रस्य
१. महफग्गुणी तु पुव्युत्तरा - इति म. वि. संस्करणे ॥