________________
अधिकार छटो - नक्षत्र परिमाण
११५
तारागणकोटिकोटीनामेकं शतसहस्रं त्रयस्त्रिंशत्सहस्राणि नव शतानि पंचाशदधिकानि १३३९५०००००००००००००००, एतावत्यस्तारा जम्बूद्वीपे, तथा चोक्तं-"दो चंदा दो सूरा नक्खत्ता खलु हवंति छप्पन्ना । छावत्तरं गहसयं जंबुद्दीवे वियारीणं ॥ १ ॥ एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साइं । नव य सया पन्नासा तारागणकोडिकोडीणं ॥२॥" तथा लवणसमुद्रे चत्वारः शशिनस्तत एकस्य शशिनः परिवारभूतानि यान्यष्टाविंशतिर्नक्षत्राणि तानि चतुर्भिर्गुण्यन्ते जातं द्वादशोत्तरं शतं, एतावन्ति लवणसमुद्रे नक्षत्राणि, तथाऽष्टाशीतिर्ग्रहा एकस्य शशिनः परिवारस्ते चतुर्भिर्गुण्यन्ते जातानि त्रीणि शतानि द्विपंचाशदधिकानि ३५२, एतावन्तो लवणसमुद्रे ग्रहाः, तथैकस्य शशिनः परिवारभूतानि यानि तारागणकोटिकोटीनां षट्षष्टिः सहस्राणि नव शतानि पंचसप्तत्यधिकानि तानि चतुर्भिर्गुण्यन्ते, जाते कोटिकोटीनां द्वे लक्षे सप्तषष्टिः सहस्राणि नव शतानि २६७९००००००००००००००००, उक्तं च-"चत्तारि चेव चंदा चत्तारि य सूरिया लवणतोए । बारं नक्खत्तसयं गहाण तिण्णेव बावण्णा ॥ १ ॥ दो चेव सयसहस्सा सत्तट्ठी खलु भवे सहस्सा य । नव य सया लवणजले तारागणकोडकोडीणं ॥२॥" एवं सर्वेष्वपि द्वीपसमुद्रेषु परिभावनीयं, सूर्याः पुनः सर्वेष्वपि क्षेत्रेषु द्वीपसमुद्ररूपेषु चन्द्रैः 'समाः' समसङ्ख्या ज्ञातव्याः, किमुक्तं भवति ?-यावन्तो यत्र द्वीपे समुद्रे वा चन्द्रास्तावन्तस्तत्र सूर्या अप्यन्यूनातिरिक्ता वेदितव्याः, 'आइच्चाणंपि भवे एसेव विही अणूणगो सव्वो' इति प्रागुक्तवचनप्रमाण्यात, 'चंदेसु' इत्यत्र सप्तमी 'व्यत्ययोऽप्यासा' मिति वचनात् तृतीयार्थे द्रष्टव्या, यथा 'तिसु तेसु अलंकिया पुहवी' इत्यत्र ॥ १२५ ॥ सम्प्रति नक्षत्राणां संस्थानादिकं वक्तुकामस्तदुपक्षेपमाह
ગાથાર્થ - ક્ષેત્રમાં જેટલા ચંદ્રો તેટલાથી ગુણતાં ક્ષેત્રમાં આ પરિવાર થાય છે તથા સર્વક્ષેત્રોમાં ચંદ્ર સમાન સંખ્યામાં સૂર્યો જાણવા.
ટીકાર્ય :- આ આગળ કહેલો નક્ષત્રાદિરૂપ એક ચંદ્રનો પરિવાર જે તે ક્ષેત્ર, દ્વિીપ અથવા સમુદ્રમાં જેટલા ચંદ્રો છે તેટલા ચંદ્રોથી ગણતાં જેટલા થાય તેટલા નક્ષત્રાદિ તે તે દ્વિીપ કે સમુદ્રમાં જાણવા, ત્યાં જંબૂદ્વીપમાં નક્ષત્રાદિનું પરિમાણ જાણવું છે. જંબૂદ્વીપમાં ૨
१. द्वौ चन्द्रौ द्वौ सूर्यो नक्षत्राणि खलु भवन्ति षट्पञ्चाशत् । षट्सप्तति ग्रहशतं जंबूद्वीपे विचारीणम् ॥१॥
एकं च शतसहस्रं त्रयस्त्रिंशत्सहस्त्राणि । नव च शता पञ्चाशत्तारागणकोटिकोटीनाम् ॥२॥ २. चत्वारश्चैव चन्द्राश्चत्वारश्चसूर्या लवणतोये । द्वादशं नक्षत्रशतं ग्रहाणां त्रिण्येव द्विपञ्चाशत् ॥१॥
द्वेचेव शतसहस्त्रे सप्तषष्ठिः खलु भवेत् सहस्राणि च । नव च शतानि लवणजले तारागणकोटिकोटीनाम् ॥२॥