________________
अधिकार चोथो - तिथिनी समाप्ति
द्विविधास्तद्यथा-दिवसतिथयो रात्रितिथयश्च तत्र दिवसतिथीनाममूनि नामानि तद्यथाप्रथमा नन्दा द्वितीया भद्रा तृतीया जया चतुर्थी तुच्छा पञ्चमी पूर्णा, ततः पुनरपि षष्ठी नन्दा सप्तमी भद्रा अष्टमी जया नवमी तुच्छा दशमी पूर्णा, ततः पुनरप्येकादशी नन्दा द्वादशी भद्रा त्रयोदशी जया चतुर्दशी तुच्छा पञ्चदशी पूर्णा, तथा चोक्तं चन्द्रप्रज्ञप्ती - [ सूत्र ४९] "ती कहं ते तिहीओ आहिय त्ति वएज्जा ?, तत्थ खलु इमा दुविहा ती पन्नत्ता, तंजहा - दिवसतिही य राइतिही य, ता कहं ते दिवसतिही पक्खस्स पन्नत्ता ?, पक्खस्स पन्नरस दिवसतिही पन्नत्ता, तंजहा - नंदा भद्दा जया तुच्छा पुण्णा पक्खस्स पंचमी, पुणरवि नन्दा भद्दा जया तुच्छा पुण्णा पक्खस्स दसमी, पुणरवि नंदा भद्दा जया तुच्छा पुण्णा पक्खस्स पन्नरसी, एवं तिगुणा तिगुणा तिहीओ" यास्तु रात्रितिथयस्तासामेतानि नामानि तद्यथा प्रथमा उग्रवती द्वितीया भोगवती तृतीया यशोमती चतुर्थी सर्वसिद्धा पञ्चमी शुभनामा, पुनरपि षष्ठी उग्रवती सप्तमी भोगवती अष्टमी यशोमती नवमी सर्वसिद्धा दशमी शुभनामा, ततः पुनरप्येकादशी उग्रवती द्वादशी भोगवती त्रयोदशी यशोमती चतुर्दशी सर्वसिद्धा पंचदशी शुभनामेति, उक्तं च चन्द्रप्रज्ञप्तावेव- [सूत्र ४९] " तो कहं ते राइतिही आहियत्ति वएज्जा ? ता एगमेगस्स णं पक्खस्स पन्नरस राईतिही पण्णत्ता, तंजहा - उग्गवई भोगवई जसोमई सव्वसिद्धा सुहनामा, पुणरवि उग्गवई भोगवई जसवई सव्वसिद्धा सुहनामा, पुणरवि उग्गवई भोगवई जसवई सव्वसिद्धा सुहनामा, एवं तिगुणा एता तिहीओ सव्वासिं राईण "मिति ॥ १०३ - १०४ ॥ तदेवमुक्तानि तिथीनां नामानि प्रसंगतो मासदिवसरात्रीणामपि सम्प्रति यावन्मुहूर्त्तप्रमाणा तिथिस्तावत्प्रमाणां तां प्रतिपादयन्ति -
९५
गाथार्थ : पडवो, जी, श्री४, योथ, पांयमी, छट्ठी, सातभी, आठमी, नवमी, दृशभी, अगियारस, पारस, तेरस, यहश जने निष्ठापनि पूर्णिमा, दृष्णपक्षमां अने भ्योत्स्ना (शुड्स) पक्षमां ख ४ विधि भएावो.
१. कथं तास्तिथय आख्याता इति वदेत् ? तत्र खलु इमा द्विविधास्तिथयः प्रज्ञप्ताः, तद्यथा-दिवसतिथयः रात्रितिथयश्च ततः कथं ते दिवसतिथयः पक्षस्य प्रज्ञप्ताः ? पक्षस्य पञ्चदश दिवसतिथयः प्रज्ञप्ताः, तद्यथा - नन्दा भद्रा जया तुच्छा पूर्णा पक्षस्य पञ्चमी, पुनरपि नन्दा भद्रा जया तुच्छा पूर्णा पक्षस्य दशमी, पुनरपि नन्दा भद्रा जया तुच्छा पूर्णा पक्षस्य पञ्चदशी, एवं त्रिगुणास्त्रिगुणास्तिथयः " २. (छा ) कथं ता रात्रितिथिय आख्याता इति वदेत् ? एकैकस्य पक्षस्य पञ्चदश रात्रितिथयः प्रज्ञप्ताः, तद्यथा उग्रवती भोगवती यशोमती सर्वसिद्धा शुभनामा, पुनरपि उग्रवती भोगवती यशोमती सर्वसिद्धा शुभनामा, पुनरपि उग्रवती भोगवती यशोमती सर्वसिद्धा शुभनामा एवं त्रिगुणा एता स्तिथयः सर्वासां रात्रीणाम् ।
-