________________
अधिकार चोथो - तिथिनी समाप्ति
जावइए परिहायइ भागे वड्डइ य आणुपुवीए ।
तावइया होति तिही तेसिं नामाणि वोच्छामि ॥ १०२ ॥ 'चन्द्रस्य' चन्द्रमण्डलस्य स्वरूपतो नैव हानिर्नापि वृद्धिः, किन्त्ववस्थित एव सदा चन्द्रः, चन्द्रादिविमानानां शाश्वतिकत्वात्, यद्येवं कथं साक्षात् प्रत्यक्षत उपलभ्येते वृद्धिहानी ? तत आह-'सुक्किले' त्यादि, शुक्लभावस्य-शुक्लताया दर्शनपथप्राप्तिकृता दृश्यते वृद्धिर्हानिर्वा, न तु स्वरूपतश्चन्द्रमण्डलस्य ॥ ९७ ॥ किमत्र कारणम् ?, अत आह'किण्ह' मित्यादि, इह द्विविधो राहुस्तद्यथा-पर्वराहुर्घवराहुश्च, तत्र यः पर्वराहुस्तद्गता चिन्ता क्षेत्रसमासटीकायां कृता, यस्तु ध्रुवराहुस्तस्य विमानं कृष्णं, तच्च चन्द्रमण्डलस्याधस्ताच्चतुरंगुलमसम्प्राप्तं सत् चारं चरति, तच्च कृष्णपक्षे आत्मीयेन पंचदशेन भागेन प्रतिदिवसमेकैकं भागं द्वाषष्टिभागीकृतस्य चन्द्रमण्डलस्य सत्का ये चत्वारो भागास्तावत्प्रमाणमावृणोति, शुक्लपक्षे च प्रतिदिवसं तावन्तमेकैकं भागमात्मीयेन पंचदशेन पञ्चदशेन भागेनापसरन् प्रकटीकरोति, तेन कारणेन चन्द्रः कृष्णपक्षे 'अपवर्द्धते' हीयते शुक्लपक्षे परिवर्द्धते इति ज्ञातव्यः, किमुक्तं भवति ? -तेन कारणेन चन्द्रमण्डलस्य वृद्धिहानी प्रतिभासेते, न तु ते तात्त्विक्यौ स्त इति ॥ ९८ ॥ एतदेव स्पष्टयति-'त' मित्यादि. यत एवं चन्द्रमण्डलस्य राहुविमानकृतावरणानावरणजनिते वृद्धिहानी 'तत्' तस्मात्कारणा-च्चन्द्रस्य रजतकुमुदसदृशप्रभस्य रूप्यकुमुदपुष्पतुल्यप्रभस्य रात्रिसुभगस्य-रजन्यामतिमनोहारितया प्रतिभासनशीलस्य हानौ वृद्धौ यथोदितस्व रुपायां यथोदितभागप्रमाणायां च लोके तिथिरिति 'नियतं' निश्चितं भण्यते ॥९९॥ सम्प्रति भागप्रमाणमेव निर्दिदिक्षुराह-'उडुपति' चन्द्रमण्डल मित्यर्थः षोडश भागान् राहुदेवः 'कृत्वा' बुद्ध्या परिकल्प्य तथाजगत्स्वाभाव्यात् कृष्णपक्षे 'अत्र' एषु षोडशसु भागेषु मध्ये प्रतिदिवसमेकैकभागहानिकरणेन सकले कृष्णपक्षे पंचदश भागान् हापयति, ज्योत्स्ने-ज्योत्स्नासमन्विते, शुक्लपक्षे इत्यर्थः, प्रतिदिवसमेकैकभागपरिवर्द्धनेन परिपूर्ण पक्षे तावन्मात्रान्, पंचदशसंख्यानित्यर्थः, भागान् पुनरपि परिवर्द्धयति, इयमत्र भावना-इह चन्द्रविमानं द्वाषष्टिसंख्यैर्भागैः परिकल्प्यते, परिकल्प्य च तेषां भागानां पंचदशभिर्भागो ह्रियते, हृते च भागे लब्धाश्चत्वारो द्वाषष्टिभागाः, शेषौ द्वौ भागौ तिष्ठतः, तौ च सदाऽनावृतौ, एषा किल चन्द्रमसः षोडशी कलेति प्रसिद्धिः, तत्र कृष्णपक्षे प्रतिपदि ध्रुवराहुविमानं चन्द्रमण्डलस्याधोभागेन चतुरंगुलमसम्प्राप्तं चारं चरद्