________________
९०
ज्योतिष्करण्डकम्
आत्मीयेनैकेन पंचदशेन भागेन द्वौ द्वाषष्टिभागौ सदाऽनावार्यस्वभावौ मुक्त्वा शेषद्वाषष्टिसत्कषष्टिभागात्मकस्य चन्द्रमण्डलस्य सत्कं चतुर्भागात्मकं पंचदशं भागमावृणोति, द्वितीयस्यामात्मीयाभ्यां द्वाभ्यां पंचदशभागाम्यां द्वौ पंचदशभागावावृणोति तृतीयस्यां त्रीन् पञ्चदशभागान्, एवं यावदमावास्यायां पञ्चदश पञ्चदशभागान् वृणोति, ततः शुक्लपक्षे प्रतिपदि एकं पंचदशभागं प्रकटीकरोति, द्वितीयस्यां द्वौ पञ्चदशभागौ तृतीयस्यां त्रीन् पञ्चदशभागान् एवं पौर्णिमायां पञ्चदश पंचदशभागाननावृतान् करोति, तदा च सर्वात्मना परिपूर्णं चन्द्रमण्डलं लोके प्रकटं भवति, उक्तंच-(क्षेत्र समास) 'कइविहे णं भंते ! राहू पन्नत्ते ?, गोयमा ! दुविहे राहू पत्नत्ते, तंजहा-धुवराहू पव्वराहू य. तत्थ णं जे से धुवराहू से णं बहुलपक्खस्स पडिवए आरब्भ पन्नरसइभागेणं पन्नरसभागमावरेमाणे चिइ, तंजहा-पढमाए पढमं भागं बिइयाए बिइयं भागं जाव पन्नरसीए पन्नरसं भागं, तं चेव सुक्कपक्खे उवदंसेमाणे उवचिट्ठइ, तंजहा-पढमाए पढमं भागं बिइयाए बिइयं भागं जाव पनरसं भाग" मिति ॥ १०० ।। तत्र- यावता कालेन कृष्णपक्षे षोडशो भागो द्वाषष्टिभागसत्कचतुर्भागात्मको 'हीयते' हानिमुपगच्छति स एव तावान् कालविशेषस्तिथिर्भवति, तथा चैवं वृद्ध्याऽपि तिथिर्भवति, किमुक्तं भवति ? -यावता कालेन शुक्लपक्षे षोडशो भागः प्रागुक्तक्रमेण परिवर्द्धते तावत्प्रमाणः कालविशेषस्तिथिरिति, अहोरात्रस्य (एकषष्टिः) द्वाषष्टिभागास्तावत्प्रमाणा तिथिरित्यर्थः, एवं तिथेगवद्भिस्तीर्थकरगणधरैः समुत्पत्तिराख्याता ॥ १०१ ॥ कियत्संख्याकास्तास्तिथयः ? इति तत्संख्यानिरूपणार्थमुपपत्तिमाह-इह यावता कालेनैकश्चन्द्रमण्डलस्य षोडशो भागो द्वाषष्टिभागसत्कचतुर्भागात्मकः परिहीयते वर्द्धते वा तावत्कालप्रमाणा एका तिथिरिति प्रागुपपादितं, ततो यावतो भागान् चन्द्रमसो राहुविमानं कृष्णपक्षे हायपति यावतश्च भागान् 'आनुपूर्व्या' क्रमेण शुक्लपक्षे परिवर्द्धयति तावत्यः-तावत्प्रमाणाः शुक्लपक्षे कृष्णपक्षे च तिथयो भवन्ति, तत्र पंचदश भागान् कृष्णपक्षे हापयति पंचदशैव च भागान् शुक्लपक्षे परिवर्द्धयति, ततः पंचदश कृष्णपक्षे तिथयः, पंचदश शुक्लपक्षे सम्प्रति तासां तिथीनां नामानि वक्ष्यामि ॥ १०२ ॥ प्रतिज्ञातमेव निर्वाहयति
१. (छ) कतिविधा भदन्त ! राहवः प्रज्ञप्ताः ? गौतम ! द्विविधौ राहू प्रज्ञप्तौ, तद्यथा - ध्रुवराहुः पर्वराहुश्च, तत्र यः स ध्रुवराहुस्तस्य बहुलपक्षस्य प्रतिपदि आरभ्य पञ्चदशभागेन पञ्चदशभागमावियमानस्तिष्ठति, तद्यथा - प्रथमायां प्रथमं भागं द्वितीयायां द्वितीयं भागं यावत्पञ्चदशम्यां पञ्चदशं भागं, तच्चैव शुक्लपक्षे उपदृश्यमान उपतिष्ठति, तद्यथा - प्रथमायां प्रथमं भागं द्वितीयायां द्वितीयं भागं यावत्पञ्चदशमं भागं"।