SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ज्योतिष्करण्डकम् कोडीओ । अयराण दोन्नि सिट्ठा जिणेहिं जियरागदोसेहिं ॥ ४ ॥ तीऍ पुरिसाणमाउं एगं पलियं तहा पमाणं च । एगं च गाउयंतिय आईएँ भणंति समयन्नू ॥५॥ उवभोगपरीभोगो, तेसिपि य कप्पपायवेहितो । होति किलेसेण विणा नवरं ऊणाऽणुभावेणं ॥ ६ ॥ सुसमदुसमाऽवसेसे पढमजिणो धम्मनायगो भयवं । उप्पन्नो सुहपुन्नो सिप्पकलादंसओ उसभो ॥ ७ ॥" इति ॥ ८६ ॥ दुष्षमसुषमायामेष परिमाणरूप: कालो यदुतैका सागरोपमाणां कोटीकोटी कतिपयवर्षेन्यूँना, यैश्च वषैन्यूंना तानि वर्षाणि भवन्ति ज्ञातव्यानि द्विचत्वारिंशत्सहस्राणि, तस्यां च मनुष्याणामायुः पूर्वपरिमाणेनैव शरीरोच्छ्रयो धनुःसंख्यया, उपभोगपरिभोगसंपत्तिश्च प्रवरशाल्याद्यौषध्यादिभ्यः, उक्तंच-"ता दुसमसुसमूणा बायालीसाएँ वरिससहसेहिं । सागरकोडाकोडी एगेव जिणेहिं पन्नत्ता ॥ १ ॥ तीए पुरिसाणमाउं पुव्वपमाणेण तह पमाणं च । धणुसंखानि४ि विसेस सुत्ताउ नायव्वं ॥२॥ उवभोगपरीभोगा पवरोसहिमाइएहिं विनेया । जिणचक्कि वासुदेवा सव्वेऽवि इमीए वोलीणा ॥ ३ ॥ अह दूसमाए कालो वाससहस्साइ एकवीसं तु । तावइओ चेव भवे कालो अइदूसमाएवि ॥४॥"॥ अथैष दुष्षमायाः कालो यदुतैकविंशतिवर्षसहस्त्राणि, तावानेव-तावत्प्रमाण एवातिदुष्षमाया अपि कालो भवति ॥ ८७ ॥ सम्प्रत्यतिदेशेनोत्सप्पिणीगतान् कालविभागान् प्रतिपादयति-य एव प्रागवसप्पिण्यां सुषमसुषमादयः कालविभागा उक्ता एत एवोत्सर्पिण्यामपि भवन्ति ज्ञातव्याः, नवरं विभागेषु परिपाटिः प्रतिलोमा ज्ञातव्या, तद्यथा-प्रथमः कालविभागो दुष्षमदुष्षमा द्वितीयो दुष्षमा तृतीयो दुष्षमसुष्षमा चतुर्थः सुषमदुष्षमा पंचमः सुषमा षष्ठः सुषमासुषमेति ॥ ८८ ॥ साम्प्रतमसंख्येयकालोपसंहारमनन्तं च कालं प्रतिपादयति–'एषः' प्रागुक्तोऽवसपिण्युत्सर्पिणीरूपः कालोऽसंख्येयो ज्ञातव्यः, येऽपि च [ए]तस्योत्सर्पिण्यवसर्पिणीरूपस्य कालस्य 'विधानकाः' भेदाः सुषमसुषमादयः सागरोपम-प्रमितास्तेऽपि 'असंख्येयाः' असंख्येयकालरूपाः प्रतिपत्तव्याः । 'इतः' असंख्येयकालादूर्ध्वं 'कालान्तरगुणेन' भूयोऽवसपिण्युत्सर्पिणीरूपकालान्तरप्रवृत्तिलक्षणेन गुणेन, किमुक्तं भवति ? -सिद्धान्तभाषितोत्कृष्टा १. ततो दुष्पमसुषमोना द्विचत्वारिंशता वर्षसहस्त्रैः । सागरकोटाकोटिरेकैव जिनैः प्रज्ञप्ता ॥ १ ॥ तस्यां पुरुषाणामायुः पूर्व प्रमाणेन तथा प्रमाणं च । धनुः संख्यानिर्दिष्टं विशेषसूत्राज्ज्ञातव्यम् ॥ २ ॥ उपभोग परिभोगौ प्रवरौषध्यादिभि विज्ञेयौ । जिन चक्रिवासदेवाः सर्वेऽपि अस्यां व्यत्क्रान्गताः ॥३॥ अथ दुष्पमायाः कालो वर्ष सहस्राण्येकविंशतिस्तु । तावतश्चैव भवेत् कालोऽतिदुष्षमायाः अपि ॥ ४ ॥
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy