________________
७७
अधिकार बीजो - घटिकादिनुं प्रमाण पन्नत्ते ? गोयमा ! से जहानामए रन्नो चाउरंतचक्कवट्टिस्स कल्लाणभोयणजाए सयसहस्सनिष्फन्ने क्नोववेए गंधोववेए रसोववेए आसायणिज्जे संघायणिज्जे सव्विदियगायपल्हायणिज्जे आसाए, इत्तो इठ्ठत्तरागे चेव पन्नत्ते" ततः पृथिव्या मृत्तिका कल्पद्रुमपुष्पफलानि च तेषामाहारः, तथाभूतमाहारमाहार्य प्रासादादिसंस्थाना ये गृहाकाराभिधाः कल्पद्रुमास्तेषु यथासुखमभिरमन्ते, न च तदा दंशमशकयूकामत्कुणमक्षिकादयः शरीरोपद्रवकारिणो जन्तव उपजायन्ते, येऽपि जायन्ते भुजगव्याघ्रसिंहादयस्तेऽपि मनुष्याणां न बाधायै प्रभवन्ति, नापि ते परस्परं हिंस्यहिंसकभावे वर्तन्ते, कालानुभावतो रौद्रभावरहितत्वात्, अस्यां च सुषमसुषमायामादौ मनुष्याणां [आयुः] त्रीणि पल्योपमानि त्रीणि च गव्यूतान्युच्छ्रयः, ततः क्रमेण हानिस्तावदवसेया यावत्पर्यन्ते द्वे पल्योपमे आयुट्टे च गव्यूते उच्छ्रायः, ततः सुषमा प्रविशति, तस्याश्च सुषमायाः परिमाणं भवति तिस्रः सागरोपमकोटीकोट्यः, आदौ च तदा मनुष्याणामायुढे पल्योपमे द्वे च गव्यूते शरीरोच्छ्रायः, ततः क्रमेण परिहानिस्तावदवगन्तव्या यावत्पर्यन्ते पल्योपममायुर्गव्यूतं च शरीरोच्छ्रयः, ततः सुषमदुष्षमा प्रविशति, तस्याश्च परिमाणं द्वे सागरोपमकोटीकोट्यौ भवतः, तस्यां चादौ पुरुषाणामायुः पल्योपमं शरीरोच्छ्रयस्तु गव्यूतं, ततः क्रमेण परिहाणिमुपगच्छति तावद् यावत् पर्यन्ते पूर्वकोट्यायुः पंचधनुशतानि शरीरोच्छ्रयः, अस्याश्च स्तोके तिष्ठति शेषे भगवान् प्रथमतीर्थंकरोऽभवत्, सुषमायामस्यां च सुष्षमदुष्षमायां मनुष्याणामुपभोगपरिभोगसम्भवः कल्पद्रुमेभ्यः, तथा चोक्तं-"तो तिन्न उ सागरोवम कोडीकोडीउ वीयरागेहिं । सुसम त्ति समक्खाया जिणेहिं जियरागदोसेहिं ॥ १ ॥ तीए पुरिसाणमाउं दुन्नि उ पलियाई तह पमाणं च । दो चेव गाउयाई आइएँ भणंति समयन्नू ॥२॥ उवभोगा परिभोगा तेसिंपि य कप्पपायवेहितो । होति किलेसेण विणा पायं ऊणा तयणुभावेणं ॥ ३ ॥ तो सुसमदुस्समाए पवाहरूवेण कोडि
१. त्रयस्तु सागरोपम कोटाकोटयो वीतरागैः । सुषमेति समाख्याता जिनैर्जितरागदोषैः ॥ १॥ तस्यां पुरुषाणामायु द्वैपल्ये तथा प्रमाणं च । द्वौ चेव गव्युतमादौ भणन्ति समयज्ञाः ॥ २ ॥ उपभोगा:परिभोगास्तेषामपि कल्पपादपात् । भवन्ति क्लेशेन विना पादोना तदनुभावेन ॥ ३ ॥ ततः सुषम दुष्षमायाः प्रवाह रुपेण कोटिकोटी । अतराणां द्वे शिष्टे जिनै जितरागद्वेषैः ॥ ४ ॥ तस्यां पुरुषाणामायुरेकं पल्यं । तथा प्रमाणं च । एकं च गव्युतं तस्या आदौ भणन्ति समयज्ञाः ॥ ५ ॥ उपभोग-परिभोगास्तेषामपि च कल्पपादपात् । भवन्ति क्लेशेन विना नवरमूनानुभावेन ॥ ६ ॥ सुषमदुष्षमावशेषे प्रथमजिनो धर्मनायको भगवान् । उत्पन्नः शुभपुण्यः शिल्पकलादर्शको ऋषभः ॥ ७ ॥