________________
ज्योतिष्करण्डकम्
लांछितविशालमांसलवक्षःस्थला: पुरपरिधानुकारिदीर्घबाहवः सुश्लिष्टमणिबन्धा रक्तोत्पलपत्रानुकारिशोणिमपाणिपादतलाश्चतुरंगुलप्रमाणसमवृत्तकम्बुग्रीवा: शारदशशांकसमवदनाश्छत्राकारशिरसोऽस्फुटितस्निग्धकान्तिश्लक्ष्णमृर्द्धजाः कमण्डलुकलशयूपस्तूपवापीच्छत्रध्वजपताका
७६
सौवस्तिकयवमत्स्यमकरकूर्मरथवरस्थालशुकाष्टापदांकुशसुप्रतिष्ठकमयूर श्रीदामाभिषेकतोरणमेदिनीजलधिवरभवनादर्शपर्वतगजवृषभसिंहचामररूपप्रशस्तोत्तमद्वात्रिंशल्लक्षणधराः, स्त्रियोऽपि सुजातसर्वांगसुन्दर्यः समस्तमहिलागुणसमन्विताः संहतांगुलिदलपद्मसुकुमारकुर्म्मसंस्थानमनोहारिचरणा रोमरहितप्रशस्तलक्षणोपेतजङ्घायुगला निगूढमांसलजानुप्रदेशाः कदलिस्तम्भनिभसुकुमारपीवरोरुकाः वदनायामप्रमाणद्विगुणमांसलविशालजघनघारिण्यः स्निग्धकांतिसुविभक्तिभक्तश्लक्ष्णरोमराजयः प्रदक्षिणावर्त्ततरङ्गभंगुरनाभिमण्डलाः प्रशस्तलक्षणोपेतकुक्षयः सुसङ्गतपार्वाः कनककलशोपमसमसंहिताभ्युन्नतवृत्ताकृतिपीवरपयोधराः सुकुमारबाहुलतिकाः सौवस्तिकशंखचक्राद्याकृतिरेखालंकृतपाणिपादतला वदनत्रिभागोच्छ्रितमांसल - कम्बुग्रीवाः प्रशस्तलक्षणोपेतमांसलहनुविभागा दाडिमपुष्पानुकारिशोणिमाधरोष्ठा रक्तोत्पलतालुजिह्वाः विकसितकुवलयपत्रायतकान्तलोचना आरोपितचापपृष्ठाकृतिसुसंगतभ्रूलतिकाः प्रमाणोपपन्नललाटफलका: सुस्निग्धकान्त श्लक्ष्णशिरोरुहाः पुरुषेभ्यः किञ्चिदूनोच्छ्रयाः स्वभाव श्रृंगारचारुवेषाः प्रकृत्यैव हसितभणितिविलासविषयपरमनैपुण्योपेताः, तथा मनुष्याश्च स्वभावत एव सुरभिवदनाः प्रतनुक्रोधमानमायालोभाः सन्तोषिणो निरौत्सुक्या मार्दवार्जवसम्पन्नाः सत्यपि मनोहारिणि मणिकनकमौक्तिकादौ ममत्वकारणममत्वाभिनिवेशरहिताः सर्वत्रापगतवैरानुबन्धा हस्त्यश्वकरभगोमहिषादिसद्भावे तत्परिभोगपराङ्मुखाः पादविहारिणो ज्वरादिरोगयक्षभूतपिशाचादिग्रहमारिव्यसनोपनिपातविकलाः कङ्ककुक्षिपरिणामा अहमिन्द्रतया पुरुषाः परस्परं प्रेष्यप्रेषकभावरहिताः, आहारोऽपि च तदा मनुष्याणां न शाल्यादिधान्यनिष्पन्नः, किन्तु पृथिवीमृत्तिका कल्पद्रुमाणां पुष्पफलानि च, तथाहि - जायन्ते खलु तदाऽपि विश्रसात एव शालिगोधूममाषमुद्गादीनि धान्यानि, परं तानि न मनुष्याणामुपभोगं गच्छन्ति, या तु पृथिवी सा शर्कारातोऽप्यनन्तगुणमाधुर्या, यश्च कल्पद्रुमपुष्पफलानामास्वादः स चक्रवर्त्तिभोजनादप्यधिकगुण:, उक्तंच (जंबु.प्र.सू. २२) "तीसे णं भंते ! पुप्फफलाणं केरिसे आसाए
१. स्थलांशुक इति कर्मग्रन्थ वृतौ ॥ २ तेषां भदन्त ! पुष्पकलानां कीदृशानि आस्वादानि प्रज्ञप्तानि ? गौतम ! यथानाम्नि राज्ञश्चातुरंतचक्रवर्त्तिनः कल्याणभोजनजातानि शतसहस्त्रनिष्पन्नानि गंधोपेतानि रसोपेतानि आस्वादनीयानि संधायनीयानि सर्वेन्द्रियगात्र पह्लादनीयान्यास्वादानि, इत इष्टतराणि चैव प्रज्ञप्तानि " ।