________________
| अथ प्रारभ्यत ईशानुग्रहविचारद्वात्रिंशिका ।।
सम्यग्दृष्टिनिरूपणानन्तरं तन्निर्वाहकमीशानुग्रहं विचारयति
આ પૂર્વેની બત્રીશીમાં સમ્યગ્દષ્ટિ આત્માઓનું સ્વરૂપ વર્ણવ્યું. હવે તેમના નિર્વાહક ઇશાનુગ્રહની વિચારણા આ બત્રીશીમાં કરાય છે. સમ્યગ્દષ્ટિ આત્માઓ જ વાસ્તવિક રીતે વસ્તુતત્ત્વની વિચારણા કરી શકે છે. ઇશાનુગ્રહવિચારણાથી તેનો વાસ્તવિક નિર્ણય થાય છે, જેથી આત્મા સમ્યગ્દષ્ટિ બની રહે છે. આ રીતે સમ્યગ્દષ્ટિનિર્વાહક ઇશાનુગ્રહ હોવાથી સમ્યગ્દષ્ટિના નિરૂપણ પછી આ બત્રીશીમાં ઇશાનુગ્રહની વિચારણા કરાય છે–
महेशानुग्रहात् केचिद्, योगसिद्धिं प्रचक्षते । क्लेशाद्यैरपरामृष्टः, पुंविशेषः स चेष्यते ॥१६-१॥
महेशेति-केचित् पातञ्जलाः । महेशानुग्रहाद् योगस्योक्तलक्षणस्य सिद्धिं योगक्षेमलक्षणां । प्रचक्षते कथयन्ति । स च महेशः । पुंविशेषः पुरुषविशेष इष्यते । कीदृश इत्याह-क्लेशाद्यैः क्लेशकर्मविपाकाशयैरपरामृष्टः त्रिष्वपि कालेषु । तथा च सूत्रं-“क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः” [१-२४] इति । अत्र क्लेशा अविद्यास्मितारागद्वेषाभिनिवेशा वक्ष्यमाणलक्षणाः । क्लेशमूलः कर्माशयः । दृष्टादृष्टजन्मवेदनीयः, अस्मिन्नेव जन्मन्यनुभवनीयो दृष्टजन्मवेदनीयः, जन्मान्तरानुभवनीयस्त्वदृष्टजन्मवेदनीयः । तीवसंवेगेन हि कृतानि पुण्यानि देवताराधनादीनि कर्माणि इहैव जन्मनि फलं जात्यायुर्भोगलक्षणं प्रयच्छन्ति, यथा नन्दीश्वरस्य भगवन्महेश्वराराधनबलादिहैव जन्मनि जात्यादयो विशिष्टाः प्रादुर्भूताः । न चैतदनुपपत्तिः, सदनुष्ठनेन प्रतिबन्धकापनयने केदारान्तरे जलापूरणवत्पाश्चात्यप्रकृत्यापूरणेनैव सिद्धिविशेषोपपत्तेः । तदुक्तं-“जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः” [४-१] । सिद्धिश्चोत्कर्षविशेषः कार्यकारणस्य जात्यन्तरपरिणामः प्रकृत्या पूराद् निमित्तमप्रयोजकं । प्रकृतीनां चरणभेदस्तु ततः क्षेत्रिकवदिति । “सति मूले तद्विपाको जात्यायु गाः” [२-१३] । सति मूले क्लेशरूपबीजे तेषां कुशलाकुशलकर्मणां विपाको जलं जात्यायुभॊगा भवन्ति । जातिर्मनुष्यादिः, आयुश्चिरकालं शरीरसम्बन्धः, भोगा विषयाः, इन्द्रियाणि सुखदुःखसंविच्च । कर्मकरणभावसाधनव्युत्पत्त्या भोगशब्दस्य । इदमत्र तात्पर्यं । चित्तं हि द्विविधं साशयमनाशयं च । तत्र योगिनामनाशयं । तदाह-“(तत्र) ध्यानजमनाशयं” [४-६] । अत एव तेषामशुक्लाकृष्णं कर्म । तदाह-“कर्माशुक्लकृष्णं योगिनः त्रिविधमितरेषां [४-७]”-शुभफलदं कर्म योगादि शुक्लम्, अशुभफलदं ब्रह्महत्यादि कृष्णम्, उभयसङ्कीर्णं शुक्लकृष्णं । तत्र शुक्लं दानतपःस्वाध्यायादिमतां पुरुषाणां, कृष्णं नारकाणां, शुक्लकृष्णं मनुष्याणां, योगिनां तु विलक्षणमिति । साशयं चित्तमयोगिनां । तत्र फलत्यागानुसन्धानाभावात्फलजनकः कर्माशयः, ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानां । द्विविधा हि कर्मवासनाः स्मृतिमात्रफला जात्यायुर्भोग
એક પરિશીલન