________________
૧૭૨
Gपहेशप : भाग-२ तत 'उत्क्षुभ्यमाणो' निन्द्यमानो 'बहुजनधिक्कारितो' धिक्कारमानीतो 'वसनहीनो' वस्त्रविकलो दृष्टः कश्चिदरिद्रः । ततो जनकलोकेन प्रतिषेधः पञ्चमेऽपि व्रते परित्यज्यमाने कृतस्तथा यथा प्राच्येष्विति ॥ ५९१॥
प्राप्तानि ततः सोमाजनकमानुषाणि, एवं पूर्ववत् संविग्नानि प्रतिश्रयसमीपं गणिनीसंनिधानम् । तत्रापि च वैशसमिदं दृष्टमेतैः सोमाजनकमानुषैः सहसेति ॥५९२॥
वैशसमेव दर्शयति-रात्रौ भुञ्जानो भोजनं कुर्वन् । कैरित्याह-मण्डकवृन्ताकैः कश्चिद् नरः पुमान् । किं कृत्वेत्याह-'विञ्चति वृश्चिकं 'छोढूण' क्षिप्त्वा मुखेऽदृष्टकमज्ञातमेव । ततो विद्धकस्ताडितस्तेन वृश्चिकेन ॥ ५९३॥
व्यन्तरजातिविषाद्-भावप्रधानत्वान्निर्देशस्य व्यन्तरजातिविषत्वाद् वृश्चिकस्य, उच्छूनमुखः सम्पन्नः श्वयथुवदनोऽत एव महाव्यसनप्राप्तश्चैकित्सिकपरिकरितो वैद्यसंघातसमन्वितः प्रयुक्तचित्रौषधनिधानः ॥ ५९४॥ _ 'उद्वेल्लमानः कृताङ्गभङ्गो बहुशः सगद्गदं विरसमारटंश्च । दृष्ट इति सम्बध्यते । ततो हा दुष्टमिदं पापं रात्रिभोजनमिति मन्यमानानां तेषां जातः षष्ठे व्रते परित्यागस्य प्रतिषेधः ॥ ५९५॥
अत्रान्तरे सोमयाभिहितमेष त्वेष एवमया गृहीतः, 'प्रायो' बाहुल्येन, धर्मः, अन्येषामपि नियमविशेषाणां केषाञ्चिद्ग्रहणादेवमुक्तमिति । ततश्च ते सोमाजनकलोका आहुर्बवतेपालयेस्त्वं यत्नेन, प्रेक्षामहे, तथाचेति समुच्चये, तां तव गुरुत्वाभिमतां वतिनीमिति ॥५९६॥ ___गमनं प्रतिश्रये चैत्यवन्दनं सन्निहितशय्यातरगृहे चैत्यप्रतिमानाम् । ततः सोमया गणिनीसाधनं यथैष मम गुरुलोक इति । तया गणिन्या 'उचिपडिवत्ती' इति उचितप्रतिपत्त्या पूर्वाभाषणादिकया देशनमकारि । तोषस्तेषां संवृत्तः । धर्मकथा सामान्येन जाता । प्रच्छनं विशेषेण केषाञ्चिदर्थानां तैः कृतम् । कथनं गणिन्या एवं च वक्ष्यमाणनीत्या ॥ ५९७॥
હવે સંગ્રહ ગાથાનો શબ્દાર્થ
શ્રીપુર નગરમાં શ્રીમતી નામની વણિક પુત્રી શ્રી જિનશાસનમાં શ્રદ્ધાવાળી શ્રાવિકા હતી. પુરોહિત પુત્રી સોમા તેની બહેનપણી હતી. (૫૫૦) કાળે કરીને તે બંનેની પ્રીતિ