________________
१५०
ઉપદેશપદ : ભાગ-૨ कुशलया सोमया चिन्तितमिदं, यथा-'संमुखवचनं' प्रत्युत्तरदानरूपं 'गुरूणां' माता-पित्रादीनां 'नो' नैव युक्तम् । तथा च तत्र प्रवर्तिनीदर्शनेनैतेषामपि गुरूणां बोधिर्भविष्यति ॥५७४॥
गच्छद्भिश्च तैदृष्टं वणिग्गृहे वैशसमसमञ्जसं महाघोरम् । किं तदित्याह-हिंसाऽनिवृत्तेर्विजृम्भितं कुलविनाशकरम् ॥ ५७५॥
दुःशीलाऽगारी गृहस्था । सा च भृतके लग्ना । तया च सुतघातनं त्वया विधेयमिति तेन सह 'संगारः' संकेतः कृतः । ततः प्रेषणं ग्रामे तयोरुगपद्येन कृतम् । सुतेन तद्घातनम् । ततः केवलागमनं केवलस्यैव सुतस्य गृहागमनमजनीति ॥ ५७६ ॥
तयाप्यगार्या तस्य वधनं घातः कृतः शिलया प्रतीतरूपया, वध्वा तस्या असिकेन। चुल्लीपुत्रकेण दुहितुर्निर्वेदनमित्यर्थः ।हा किमेतदिति बोल: कोलाहलो जातः ॥५७७॥ ___ लोकमिलने वचनं प्रवृत्तं त्वयापि किं न एषा वधूर्मातृघातिका घातिता? साऽऽहहिंसायानिवृत्ताऽहम् भणितंचजनेन एतदनिवृत्तिहिंसाया अविरमणमहोपापेति ॥५७८॥
तया सोमया भणितौ च गुरू मयाप्येकं तावद् व्रतमिदं हिंसानिवृत्तिरूपं गृहीतं वर्त्तते, तत्किं मोक्तव्यमिदमिति पृष्टे तावाहतुः-न नैव मोक्तव्यम्-आस्तामिदं व्रतमिति ॥ ५७९॥
एवं यथा पथि गच्छद्भ्यां गुरुभ्यां कुटुम्बमारी दृष्टा तथा, विनष्टवहनः कश्चिन्नौवित्तको द्वीपान्तरे मन्दः सन् भृतकेन कर्मकरेण सुष्ठु सादरं प्रतिजागरितः, तुष्टश्चासौ तं प्रति दुहितृदाता वणिक् सम्पन्नः, स च भृतकेनोक्तः-विवादे कथञ्चित् प्रवृत्ते जीवकाः पक्षिविशेषाः, ते चाभिज्ञाश्च साक्षिणः, तेभ्यो विज्ञेयो भवान् मिथ्याभाषी व्यवहारे इति ॥५८०॥
गृहागतश्च महेलादिवशाद् विलोट्टो दुहितृदानं प्रति सः । ततो विवादो जातः । भृतकेन राज्ञः शिष्टो निवेदितो दुहितृदानव्यवहारः । इति प्राग्वत् । तथा, देव ! पक्षिणः साक्षिणो वर्त्तन्ते, इति पक्षिसाक्ष्ये प्रतिपादिते नृपानुज्ञातेन तेन गत्वा ते आनीताः। विस्मयश्च राज्ञः संवृत्तः । ततः 'विरलं 'त्ति संनिहितजनापसारणे कृते । ततः पृच्छा च प्रवृत्ता, यथा- ॥ ५८१॥
कुत्र साक्ष्यमेषाम् । ततश्छगणे गोमये कृमिदर्शनेन-चञ्चप्रान्तभागेन कृमीणां कीटकानां भोजनार्थं निक्षिप्तानां दर्शनमन्येषां परिपार्श्वतोऽवस्थितानां स्वत एव क्रियमाणं पश्यतां प्रयोजनं तेन तैः साक्ष्यं कृतम् । कथमित्याह-ईदृशैः कर्मभिरलीकभाषणरूपैरेवं