________________
ઉપદેશપદ : ભાગ-૨
૧૬૯ शब्दयित्वा भणितो गृह्णीत विभवमिति । लक्षग्रहणं तु ततस्तेन दीनारलक्षग्रहणं च कृतम् ततः 'तद्दीवन्नूनिजामग'त्ति गौतमद्वीपज्ञनिर्यामको गृहीतः । वहनभरणं कचवरस्य विहितम् ॥ ५६५॥
एवं च विहिते हसति लोक अहो ! ग्रहगृहीतव्यवहारः । गमनं तत्र द्वीपे । तथा कचवरोज्झनं चैव । तत्र विहिते गोदर्शनं गोमयभरणं वहनानामत्यर्थमिति ॥ ५६६॥
आगमनं निजनगरे । ततो राजदर्शनम् । आनीतम् त्वया द्वीपान्तरात् किमिति राजप्रश्ने गोबरो देव ! आनीत इत्युत्तरं दत्तम् । राजा प्राह-उच्छुल्कं तव भाण्डम् । प्रसाद इति तेन भणिते हसनं लोकस्य । प्रवेशना ततः स्वगृहे भाण्डस्य ॥ ५६७ ॥
समये चाग्निज्वालनं गोमयपिण्डानाम् । ततो रत्नानि व्यक्तीभूतानि । अतश्च विक्रयेण रत्नानां परिभोगोऽन्नादिगोचरः समजनि । एवं च लोकपूज्यत्वं तथा लोकोपहासावधीरणेन यो निश्चयः कार्यगतस्तस्मात्प्राप्तमेतेन भव्यसत्त्वेन' कल्याणयोग्यजीवेनेति ॥ ५६८॥
पट्टकसदृशी आज्ञा, एवमादीहापि धर्मविषये योजनीयमेव निःशेषं निजबुद्ध्या ज्ञायकेन सता 'यथाविषयं' यथायोगमिति । तथाहि-पट्टकसदृशी आज्ञा, पितृस्थानीयो गुरुः उपहासस्थानीया अन्यजनवादाः, ग्रहित्वस्थानीयं स्वाभिप्रायस्य ज्ञानं लोके प्रकाशनं रत्नस्थानीयो धर्म इति ॥ ५६९॥
'ईदृशानां' गोबरवणिक्सदृशानां धर्मो दातव्यः ‘परहितोद्यतेन' गुरुणा । इह जगत्यात्मम्भरित्वमितरथा इदृशानामप्यदाने । यदि नामैवं ततः किमित्याहतदात्मम्भरित्वमनुचितमीश्वराणामिव ॥ ५७०॥
एवं लब्धतदभिप्रायया श्रीमत्या नीता वतिनीसमीपं साध्वीसकाशम् । कमित्याहप्रतिश्रयं वसतिम् । कमित्याह-साधयित्वा वृत्तान्तं न कल्पते मम व्रतदानं कर्तुं, किन्तु प्रवर्त्तिन्या एवेतिरूपम् । तत्रापि प्रतिश्रये गता 'प्रवर्त्तिन्या' महत्तरया 'यथाविधि' उचितसम्भाषणादिना विधिनेत्यर्थः दृष्टा सा । इति प्राग्वत् ॥ ५७१॥ ___ दानादिभेदभिन्नः कथितो धर्मश्चतुर्विधस्तस्याः, कर्मोपशमेन तथा सोमायाः परिणतश्चैव ॥ ५७२॥
ततो विधिनाऽणुव्रतग्रहणं पालनमनुवर्त्तनं तस्य । ततोऽप्रीतिकं गुरुजनस्य । भणितं च तेन छर्दय मुञ्च इमं धर्मम् । तयोक्तं-गुरुमूले मोक्तव्यः । ततस्तेषां तत्र गुरुमूले नयनमारब्धम् ॥ ५७३॥