________________
उपदेशप€ : भाग-२
वचनोत्साहाज्झुण्टणलाभार्थे श्वशुरकुलमसौ जगाम, लब्धवांश्च तं तत्र, एवं मोहनीयक्षयोपशमात् श्वशुरकुलतुल्यं गुरुकुलं झुण्टणतुल्यं धर्म्यं लब्धुं कश्चिद् गच्छति, लभते च तं तत्र । यथाऽसौ तथाशिक्षितोऽपिमन्दभाग्यतया लोकोपहासभयादन्तराल एव स्वशरीराद् उत्संधट्टीकृत्य मुमोच तथायमपि दीर्घसंसारितया लब्धमपि धर्मं तथाविधलोकाविज्ञातभावभयादकृतकार्यमेव समुज्झति । यथाऽसौ झुण्टणपरित्यागे बहुदुःखितो बभूव तथाऽसौ प्रस्तुतधर्मत्यागे । यथा तस्य पुनः स दुर्लभो बभूव, तथा तस्य मुक्तः प्रस्तुतो धर्मः । एतदेव च लोकोपहासभयादन्तराल एव स्वशरीरादुत्संघट्टीकृत्य मोचनं सर्वं योजनीयमिति ॥ ५५९॥
૧૬૮
इत्थं झुण्टणदृष्टान्तं सोपनयमभिधाय प्रस्तुते योजयति, न नैवेदृशानां झुण्टणवणिकसदृशानामेष धर्मो दातव्यः । किमर्थमित्याह - ' तेषामेव तु ' धर्मग्रहीतुमुपस्थितानामेव हितार्थम्, दृष्टान्तमाह-'गाढग्लानादीनां' प्रबलज्वरादिरोगोपहतानां 'स्नेहादियुत इव' घृतगुडादिसम्मिश्रित इवाहारः सूपोदनादि ॥ ५६०॥
सोमाह ब्रवीति नेदृशा एव झुण्टणवणिक्कल्पाः सर्वे प्राणिनो भवन्ति नियमेन । कुतः यतो बुद्धियुता अपि, हुर्यस्मादर्थे, 'अन्ये' केचन भवन्ति । अत्र च गोबरवणिजा दृष्टान्तः ॥ ५६१ ॥
तमेव दर्शयति- विश्वपूर्यां नगर्यां प्रकटं प्रसिद्धो दत्तो नाम नौवित्तको बभूव । अथ कथञ्चित् कालेन गच्छता दारिद्य मुत्पन्नं तस्य । ततः 'अप्पाहियसरणं त्ति परलोकप्रयाणप्रस्थितेन पित्रा या शिक्षा दत्ता तस्याः स्मरणमभूत् । अप्पाहियमेव दर्शयति- अभेद्ये मञ्जूषादौ स्थाने ॥ ५६२॥
या ताम्रककरण्डी तस्यां पट्टकः समस्ति । तत्र च गौतमद्वीपविशेष एव 'कज्जवोज्झना' उत्कुरुटिकाकचवरप्रक्षेपः कार्यः । तत्र कृते रत्नतृणचारिगोदर्शनं भविष्यति । ततो गोबरे तासां गवां छगणे रत्नानि भविष्यन्तीति लिखितमास्ते ॥५६३ ॥
ततो ज्ञात्वेदं पट्टकलिखितं वस्तु पश्चान्नगर्यामेवमाह - सर्वत्र त्रिकचतुष्कादौ । यदाह तदेव दर्शयति-बुद्धिरस्ति, नास्ति विभवः । ग्रहोऽस्य च वर्त्तते इतिकृत्वाऽवधीरितो लोकेन । राज्ञा श्रुतमेतदस्य व्याहरणम् ॥ ५६४॥