________________
૧૬૭
ઉપદેશપદ : ભાગ-૨ प्रीतेर्वृद्धिनिमित्तमजातापत्ययोरनुत्पन्नापत्ययोः, तथेति समुच्चये, 'दानं' वरणकरणरूपमजायत॥ ५५२॥
समये च धनस्य पुत्रः शङ्खस्य दुहिता जाता । प्राप्तवयसोश्च तयोविवाहः कृतः। भोगाश्च प्रवृत्ताः । कथञ्चिद् भाग्यपरिहाणी दारिद्यं समुत्पन्नम् । पत्नीभणनं पत्युरभूत्, यथा-गच्छ श्वशुरकुलं मदीयं पितृगृहमित्यर्थः 'मार्गय' याचस्व 'झुण्टणकं' पशुविशेषम् ॥ ५५३॥
'साणागिइ 'त्ति श्वाकृतिः श्वाकारः, 'तको' झुण्टणकः, खलुक्यालङ्कारे, कम्बलरत्नं च तस्य पशो रोमभिर्जायते षड्भिर्मासैरित्यर्थः, कर्त्तयाम्यहं महामूल्यं दीनारलक्षमूल्यमित्यर्थः ॥ ५५४॥
स पुनः पशुरुत्संघट्टः शरीरसंघट्टविकलो न मोक्तव्यः। 'सदापि' रात्रौ दिवा चेत्यर्थः। नियत इति कृत्वा, हसिष्यति च मूर्खलोकः कार्यपरमार्थमजानानो 'न' नैव 'कार्यतः' कार्यमपेक्ष्य स गणयितव्य इति ॥ ५५५॥
प्रतिपन्नमिदं 'तेन' तत्पतिना । गतश्च लब्धश्च स झुण्टणकः, ततः श्वशुरकुलात्, नवरं केवलं 'अप्पाहिउ'त्ति शिक्षितश्च बहुशो बहून् वारान् तैरपि श्वशुरकुलमानुषैः, तथा तत्प्रकारं यल्लोकहसनं तत्र विषयभूते ॥ ५५६॥ ____ आगच्छंश्च ततः श्वशुरकुलाद् हस्यमानो मार्गजनेन कथञ्चिद् महतो लजाभरात् तुच्छीभूतानयनोत्साहः सम्प्राप्तो निजपुरबहिरङ्गदिकानगरबहिःप्रदेशे मुक्तः आरामे, तथाप्रविष्टस्तु आराममुक्तपशुरेव च गृहे प्रविष्ट इति ॥ ५५७॥
भणितश्च 'तया' पल्या क्व स झुण्टणकः? स प्राह मुक्तो बहिरिति सा प्राह-हन्त भव्योऽसि त्वम्, यतो मृतकोऽसावेतावता कालेन, स्तोकफलं कम्बलरत्नं भविष्यति । न च लाभो यथा पूर्वं तथा तु तथा पुनरेतस्य पशोरिति ॥ ५५८॥ ___प्रस्तुते योजयन्नाह- 'झुण्टणतुल्यः' प्रस्तुतपशुसदृशो'धर्मः'शुद्धः पारमार्थिकः। 'एतस्मिन्' धर्मे योजयितव्यमिदं झुण्टणगतमुदाहरणं सर्वमशेषं निजबुद्ध्या ।कथमित्याहअशुभशुभफलत्वादितिअशुभशुभफलत्वेन, आदिशब्दात्पुनर्दुर्लभत्वा-दुर्लभत्वाभ्यामिति। इदमुक्तं भवति-यादृशो धनपुत्रस्तादृशोऽयं गुणदरिद्रः संसारी जीवः। यथा च पत्नी