________________
૪૨૬
64हेश५६ : भाग-१ तस्य च क्षेत्राभोगे कृते ज्ञानमभूत्, यथा-समय एष एतस्य बोधिलाभे विधेये इत्यालोच्य साधुसंघाटकप्रेषणं विहितम् । तेन च तवृत्तान्तगतः पाठः कृतः ॥३०४॥
कथमित्याह-तापस ! किमनेन निरर्थकेन मौनव्रतेन, प्रतिपद्यस्व ज्ञात्वा धर्म जिनप्रणीतम् । कुतो ? यतो मृत्वा 'सूयरोरगत्ति सूकर उरगश्च जातस्तथा पुत्रस्य पुत्रस्त्वमसीति ॥३०५॥
- 'विस्मयवन्दनपृच्छा' प्रथमतो विस्मयस्ततो वन्दनं तदनुपृच्छा जाता कथमिदं भवद्भ्यां मम चरितं ज्ञातमिति?। गुरुर्जानाति, न पुनरावां किञ्चनेति । कुत्र स महाभागस्तिष्ठति? उक्तं च ताभ्यामुद्याने । 'तद्गमनं' मूककगमनमुद्याने । तत्र वन्दना कृता, कथना च धर्मस्य गुरुणा । सम्बोधिः सम्यक्त्वरूपा ॥३०६॥
तथावासनातो लोकेऽस्य नाम नापगतं तत्, ततस्तु तत एव मूक इति । एवमनेन विधिना द्वितीयं नाम एतद् मूक इति एतस्य विज्ञेयमिति ॥३०७॥
सुरः-इतोऽपि भ्रातृजीवात् कुत्रस्थाने बोधिः? जिनः-रम्ये वैताढ्यसिद्धकूटे सर्वकूटश्रेणिप्रथमस्थानभाविनीति । सुरः-कथं केन विधिना पुनः? जिन:जातिस्मरणात्। सुरः-तजातिस्मरणं कुत इति? जिनः-कुण्डलयुगात् ॥३०८॥
ततः कोशाम्ब्यागमो मूककसाधनं तीर्थकृत्कथितवृत्तान्तनिवेदनं मूककाग्रतस्तेन विहितम् । संगारः संकेतस्ततो द्वयोरपि गमनं वैतान्यै कटे सिद्धनाम्नि । कुण्डलस्थापना। तथा, स्मृतिफलं चिन्तारत्नदानं स्मृत्या स्मरणमात्रेण फलं यस्मात् तत्तथा तच्च तच्चिन्तारत्नं चेति ॥३०९॥
गमनंसुरस्यस्वस्थाने, च्यवनेसत्युत्पादश्च्यवनोत्पादः।आमेष्वकालदोहदोजनन्याः समजनि।तदसम्प्राप्तौ कृशता ।ततःशङ्का मूकस्य विमर्शो जातः किमयंस उत्पन्नोऽन्यो वेति । निश्चितं च तेन, यथा सत्या एव जिनाः । ततोऽसौ सुरजीवो गर्भतयोत्पन्न इति चिन्तारत्नात् सकाशात् तत्सिद्धिरकालदोहदसिद्धिः ॥३१०॥
निष्पत्तिर्गब्र्भस्य ।प्रसवश्च समये ।नमस्कारपीठकः प्रतीतरूपेण नमस्कारेण युक्तः पीठको नवजातशिशुयोग्यपातव्यवस्तुरूपोदत्तः ।अर्हद्दत्तोनामेतिकृतम् ।अर्हतांभगवतां पुनः पुनर्नामस्मरणार्थम् । चेइयसाहूनयणं'त्ति चैत्यानां साधूनां च समीपे नयनं तस्य यदा क्रियतेऽभक्तिरटनेऽबहुमानाद्आक्रन्दनं, परिज्ञातधर्मनिस्पृहचित्तस्यसम्पन्नयौवनस्य च 'चउकन्ना' इति पितृभ्यां चतसृणां कन्यकानां परिणयनं कारितः ॥३११॥