________________
૪૨૪
64हे श५६ : मा0-१ हस्तपादादिशरीरावयवेषु तस्य ताभ्यां क्रियमाणे यतनयात्यन्तपीडापरिहारेण यन्नियुद्धं बाहुयुद्धं तद्विधाय यत्नेन तेन चित्रलिखिताविव तौ कृतौ । ततः साधोस्ततः स्थानाद् गमोऽपसरो जातः ॥२९२॥
'पीडंतराय'त्ति पीडा तच्छरीरगताऽन्तरायश्च भोजनादिविनरूपोऽनयोर्वर्त्तत इति परिभाव्य न नैवाटनं कृतं भिक्षानिमित्तं तेन साधुनेति, किन्तु 'पइरिक्केत्ति एकान्तेऽवस्थानं कृतम् । तत्र तस्य चिन्ता-कथमिदं मच्चेष्टितं सुन्दरपरिणाम स्यादिति। तत्काले च शोभननिमित्तमङ्गस्फुरणादि किञ्चिनिमित्तं सुन्दरं प्रवृत्तम् । ततो भविष्यति चरणमिति धृतियोगस्तस्य सम्पन्नः । 'स्वाध्यायकरणं तु' स्वाध्यायकरणमेव प्रारब्धम् ॥२९३॥
'राज्ञः' समरकेतोः 'कुमारावेदनं' परिजनेन कुमारवृत्तान्तकथनं कृतम् । स च गुरुमूलागमनं विधाय क्षमस्वापराधं कुमारकृतमित्युक्तवान् । तं प्रति गुरुराह-'न वि जाने' न वेद्मि साधुभिर्यथा स्तम्भितौ कुमारौ ॥२९४॥
तदनुपृच्छा कृता साधूनां, तैरप्यूचे-नास्माकं केनचित् कस्यापि किञ्चित्कृतम्। ततो राजा आह-नैतत्कुमारस्तम्भनमन्यथा साधून् विहाय भदन्त कल्याणकारक !। तत आगन्तुके साधौ शड्का जाता, मा तेन कृतं कुमारस्तम्भनमिति । ततः 'साधनं' निवेदनं प्राघूर्णकसाधो राज्ञः कृतं गुरुणा । ततो राज्ञा गमनं तस्य साधोः समीपे कृतम् । ततश्च ज्ञानं प्रत्यभिज्ञानं समजनि ॥२९५॥ .
वीडितो लज्जावान् राजा जातः । ततोऽनुशासने मुनीनां शिक्षणे कृते मिथ्यादुष्कृते च तेन दत्ते कुमारविज्ञापनं समजायत, यथा-योजयत प्रगुणीकुरुत तौ कुमारौ । मुनिराह-गुणैः सम्यग्दर्शनज्ञानचारित्रैर्योजयितुमिच्छामः । पृच्छत च तौ कुमारौ । इत्येवं मुनिनोक्ते युवराजः प्राह ॥२९६॥ __ न शक्नुतस्तौ वक्तुम् । ततश्च तत्र कुमारस्थाने गमनमकारि साधुना । ततो मुखयोजना कथना च धर्मस्य । पश्चात् पृच्छायां संवेगः संजातस्तयोः । कुत इत्याह-'तथा बीजाभ्यासात्' तत्प्रकाराजन्मान्तरविहितगुणज्ञप्रमोदादिधर्मकल्पतरुमूलानुशीलनरूपात् । ततश्च संयोजने शरीरावयवानां 'चर्यायां' च भिक्षाभ्रमणरूपायां मुनिना कृतायां 'निष्क्रमणं' व्रतमभूत् तयोः ॥२९७॥