________________
૪૨૩
6५४ श५६ : भाग-१ ___ भणितं च तैः राजपुरोहितपुत्रावभद्रकी, 'तत्कृतस्तु' तत्कृत एवोपसर्गः साधूनाम्। शेषस्त्वन्नपानादिशुद्धिस्तल्लाभादिरूपो 'निरुपसर्गो' बाधाविरहितस्तत्रोजयिन्यां विहारः सदा सर्वेषु प्रावृडादिकालेषु यतीनां साधूनामिति ॥२८७॥ ___ ततोऽपराजितस्य चिन्ता संजाता । 'प्रमत्तता' कुमारोपेक्षालक्षणा भ्रातुर्मम महादोषो बोधिलाभघातकत्वात् , तद् निग्रहीतुमसौ मम युज्यते । तथा चैव कुमारयोरप्यनुकम्पा दया कर्तुमुचिता । अस्ति मे शक्तिः सामर्थ्य प्रस्तुतनिग्रहे ॥२८८॥
'गुरुपुच्छत्ति गुरुमापृच्छयेत्यर्थः । गमनमुजयिनी प्रति । सम्प्राप्तिश्च । तत्र प्रवेशश्च साधूपाश्रये । कृता च वन्दनादिका उचिता स्थितिः । सति काले भिक्षाभ्रमणरूपे उद्ग्राहणं पात्रप्रगुणीकरणरूपं यदा तेन विहितं तदा साधुभिः 'अच्छणं खु'त्ति आसनमेव आध्वं यूयमित्येवं प्रज्ञापनं कृतम् । तेन चोक्तमहमात्मलब्धिको न परलब्धिमुपजीवामि ॥२८९॥
ततः स्थापनाकुलानि प्रतीतानि । आदिशब्दाद् दानश्रद्धालुश्रावकसम्यग्दृष्टयादिकुलग्रहः । यतः पठ्यते-"दाणे अभिगमसद्धे सम्मत्ते खलु तहेव मिच्छत्ते । मामाए अचियते कुलाइं जयणाए दाइंति ॥१॥ सागारिवणिगसुणए गोणे पुत्ते दुग्गंछियकुलाइं । हिंसागं मामागं सव्वपयत्तेण वजेजा ॥२॥" एवमुपलब्धस्थापनादिकुलविभागः स साधुः प्रत्यनीकगृहे प्रविष्टः, भणितं च धर्मलाभ इति । ततोऽन्तःपुरिकासंज्ञानमन्तःपुरिकाभिस्तस्य संज्ञा अकारि यथापसरेति 'अवहे रि'त्ति अवधीरणा तेन कृता । धर्मलाभशब्दश्रवणे कुमारकागमनं तत्पार्श्वे सम्प्रवृत्तम् ॥२९०॥ - ताभ्यां च प्रथमं 'दुवारघट्टण 'त्ति द्वारकपाटपुटस्थगनं कृतम् । 'वंदण णच्चाहि'त्ति वंदितोऽसौ, भणितश्च नृत्य त्वं तत्रेत्येवं भणिते सति स आहकथं गीतवादितेन विना 'नृत्यते' इति गम्यते । ततो भणतस्तौ कुमारौआवामिदं गीतादि कुर्व इति ॥२९१॥
'आरम्भविषमतालम्' आरम्भे एव विषमो विसंस्थुलस्तालो गीतवादितसंयोगरूपो यत्र तत्तथा नृत्यं प्रवृत्तम् । तदाऽकोपस्य साधोर्यः कोपस्तत्र सति तेनोक्तं 'न' नैव 'एवं' विषमतालतायां नृत्यामि, विडम्बनारूपत्वाद् अस्य नृत्यस्य । ततः कर्षणे