________________
૪૨૨
64हे श५६ : मा0-1 वाहिविहाणं वेज्जा, पच्चक्खाणंति वेयणा अग्गी । देवस्स सबरघोसण, दिट्ठो रुद्दो पयत्तेण ॥३१३॥ मझंपि एस वाही, ता एवमडामि जावणाहेउं । एसोवि हु जति एवं, ता फेडेमित्ति पडिवत्ती ॥३१४॥ चच्चरमादिट्ठाणं, वाही निग्गमणऽवेयणा पउणो । असमय साहुविउव्वण, मुवाय मो दव्वपव्वज्जा ॥३१५॥ तच्चागगिहागमणेवमादिपडिवत्ति तह पुणो वाही । विदाण सयण वेजस्स पासणा सेव पण्णवणा ॥३१६॥ एवं पुणोवि नवरं, मए समं अडतु एव पडिवन्ने । गोणत्तगहण निग्गम, सदावि मत्तुल्लमो किरिया ॥३१७॥ गामपलित्तविउव्वणमुम्मग्गो जक्खपूयपडणं च । कुंडगचाई सूयरकूवे गो जुंजम दुरुव्वा ॥३१८॥ तणविझवणादीसं, जंपंतो किंच चोदितो णिउणं । णो माणुसो मणागं, संवेगे साहियं सव्वं ॥३१९॥ वेयड्डनयण कूडे, कुंडलजुयलम्मि भावसंबोही । पव्वजा गुरुभत्ती, अभिग्गहाराहण सुरेसु ॥३२०॥
अर्थतत्संग्रहगाथाक्षरार्थः-एलपुरं नाम नगरमासीत् । तत्र जितशत्रू राजा, पुत्रोऽपराजितश्च युवराजो बभूव । द्वितीयश्च पुत्रः समरकेतुर्नाम । तस्य च कुमारभुक्तावुजयिनी समजायत ॥२८४॥ अन्यदा च प्रत्यन्तविग्रहजये निजदेशसीमापालभूपालस्य विग्रहे व्युत्थाने सति यो जयः परिभवस्तस्मिन् समुपलब्धे, आगच्छतः स्वदेशाभिमुखं 'नवरि त्ति नवरं केवलं युवराजस्यापराजितस्य राधाचार्यसमीपे धर्माभिव्यक्तौ सत्यां निष्क्रमणं व्रतमभूत् ॥२८५॥
अन्यदाच तगराविहार 'त्ति तगरा नाम नगरी, तस्यां राधाचार्याणां विहारः सम्प्रवृत्तः। प्रस्तावे चोजयिनीतस्तत्र तगरायामार्यराधसाधूनामागमनं समजनि । विहिता प्रतिपत्तिः प्राघूर्णकोचिता, विहारपृच्छा उचितकाले समुचितसमये सन्ध्यादौ कृता सूरिभिः ॥२८६॥