________________
૪૧૯
64हे श५६ : मास-१
ता कइयवि भवगहणे, सबलं एयस्स धम्मणुट्ठाणं । थोवोवि सदब्भासो, दुक्खेणमवेति कालेणं ॥२८२॥
यत एवं सानुबन्धमस्य कर्म 'ता' इत्यादि तत्तस्मात् 'कतिचिद् भवग्रहणानि' कियन्त्यपिजन्मान्तराणि सबलं'दोषबहुलतया कर्बुरमेतस्य दहनजीवस्य धर्मानुष्ठानं' स्वर्गापवर्गलाभफला क्रिया। कुतः? यतः, स्तोकोऽप्यणीयानपि किं पुनर्बहुरित्यपिशब्दार्थः, असदभ्यासोऽसतोऽसुन्दरस्य मार्गप्रतिकूलतयार्थस्याभ्यासः पुनः पुनरनुशीलनमसदभ्यासजन्यं कर्मेत्यर्थः, दुःखेन महता यत्नेनापति कालेन भूयसेति ॥२८२॥
अथ प्रस्तुते योजयन्नाह- .. जरखलणाए सरिसं, पडिबन्धमिमस्स आहु समयण्णू । तत्तो भावाराहण, संजोगा अविगलं गमणं ॥२८३॥
ज्वरस्खलनया तथाविधपथप्रवृत्तपथिकस्य ज्वरकृतविघ्नेन सदृशं प्रतिबन्धं प्रतिघातमस्य दहनजीवस्याहुर्बुवते 'समयज्ञाः' सिद्धान्तविदः । कुतः? यतस्ततः प्रतिबन्धादुत्तरकालं 'भावाराधनसंयोगात्' तात्त्विकसम्यग्दर्शनादिसमासेवनारूपात् अविकलमखण्डं गमनं निर्वाणे भविष्यतीति ॥२८३॥
अथार्हहत्तोदाहरणम् - एलउरं जियसत्तू, पुत्तो अवराजिओ य जुवराया । बिदिओ य समरकेऊ, कुमारभुत्तीए उज्जेणी॥॥२८४॥ पच्चंत विग्गहजए, आगच्छंतस्स नवरि जुवरन्नो । राहायरियसमीवे, धम्मभिवत्तीए णिक्खमणं ॥२८५॥ तगरा विहार उज्जेणीओ तत्थऽजराह साहूणं । . आगमणं पडिवत्ती, विहारपुच्छा उचियकाले ॥२८६॥ रायपुरोहियपुत्ता, अभद्दगा तक्कओ उ उवसग्गो । सेसो उ निरुवसग्गो, तत्थ विहारो सति जईणं ॥२८७॥ अवराजियस्स चिंता, पमत्तया भाउणो महादोसो । तह चेव कुमाराणं, अनुकंपा अस्थि मे सत्ती ॥२८८॥