________________
૪૧૮
64हे श५६ : भाग-१ ततः किमित्याह-क्रियया एष आगच्छामीत्यादि प्रतिपद्यापि स्थानादिकरणलक्षणया 'ऽतिसन्धयते' वञ्चयति 'इतरं' ज्येष्ठं भ्रातरम् । किमनाभोगादिनेत्याशङ्क्याह-'मायया' तृतीयकषायरूपया 'तद्गतया' तु क्रियागतयैव न पुनः पदार्थप्रज्ञापनादिगतयापि । 'एवं' क्रियावञ्चनेन 'प्रायो' बाहुल्येन 'कालः' प्रव्रज्यापरिपालनरूपो व्रजति । 'संलेहणमोउ' इति पर्यन्ते च संलेखना द्रव्यभावकृशीकरणलक्षणा द्वयोरप्यजनि अनशनं च । ततः सौधर्मदेवलोके ॥२७७॥
अभ्यन्तरपर्षदि पञ्चपल्यायुषौ महर्द्धिको देवौ जातौ। अन्यदा च भगवतो महावीरस्य 'आमलकप्पो सरणे' इति आमलकल्पायां नगर्यामाम्रशालवने समवसरणं समपद्यत । तत्र च वन्दनार्थं गतयोर्नाट्यविधिविपर्ययो नृत्यक्रियाविपर्यासः सञ्जातस्तयोः ॥२७॥ __ कथमित्याह-एवं' स्त्रीपुरुषादितया विकुर्विष्यामि वैकुर्विकं रूपं करिष्यामीति चिन्तयतः सत एवमेव यथाभिलषितमेव 'तत्र' तयोर्मध्ये भवति 'एकस्य' ज्वलनसुरस्य । द्वितीयस्य का वार्तेत्याह-'इतरस्य तु' द्वितीयस्य पुनर्विपरीतं चिन्तितरूपप्रतिकूलं भवति । ततो 'ज्ञायकपृच्छा' जानतो गणधरस्य पृच्छा सम्पन्ना कथमस्य भगवन् ! विपर्यासो जायते? इति ॥२७९॥
'भगवत्कथना' भगवता प्रज्ञापितं, यथा-मायादोषो वञ्चनापराधोऽस्य 'क्रियागतस्तु' क्रियागत एव प्राग्भवविहित ‘एष इति' विपरीतरूपनिष्पत्तिरूपः । अनुगमिकश्चानुगमनशीलः पुनः 'प्रायो' बाहुल्येन सर्वक्रियास्वेवमेव नाट्यविधिन्यायेन 'कतिचित्' कियन्त्यपि भवग्रहणानि । अयमत्राभिप्रायः-बोधिविपर्यासेन ह्याभवमनुशीलितेनानेकेषु भवेषु बोधिविपर्यासः सम्पद्यते मायापूर्वकेण च क्रियाविपर्यासेन क्रियाविपर्यास इति ॥२८०॥
एतदेव भावयितुमाहविवरीयविगलकिरियानिबंधणं जं इमस्स कम्मति । एवंविहकिरियाओ, उ हंदि एतं तदुप्पन्नं ॥२८१॥
'विपरीतविकलक्रियानिबन्धनं' विपर्यस्ताऽसम्पूर्णचेष्टाकारणं यद्यस्मादस्य दहनसुरस्य 'कर्म' वैक्रियशरीरनामकादि, इत्यस्माद्धेतोरेवंविधक्रियातस्त्वेवंरूपक्रियात एव 'हंदी 'ति पूर्ववत्, “एतत्' कर्म 'तदा' दहनभवे उत्पन्नमिति ॥२८१॥