________________
64हे श५६ : भाग-१
૪૧૭
पाटलिपुत्रे नगरे 'हुयासण'त्ति हुताशनो नाम ब्राह्मणोऽभवत् । तस्य ज्वलनशिखा चैव जाया समजायत । श्रावके चैते । तयोश्च 'जलणडहणा यत्ति ज्वलनो दहनश्च पुत्रौ जातौ। तयोश्च कृतप्रव्रज्ययोः 'सोहम्मत्ति सौधर्मे देवलोके पल्यपञ्चकमायुरजनि। आमलकल्पायां नगर्यामवतीर्णयोर्भगवतो महावीरस्य पुरतो 'नाट्यार्थे' नाट्यनिमित्तं कृतवैक्रिययोर्गणधरेण पृच्छा कृतेति ॥२७४॥
अथैनामेव गाथां गाथाषट्केन भावयन्नाहसंघाडग सज्झिलगा, कुडुंबगं धम्मघोसगुरुपासे । पव्वइयं कुणति तवं, पव्वजं चेव जहसत्तिं ॥२७५॥ जलणडहणाण णवरं, रिजुभावो तत्थ पढमगो सम्मं । बिदिओ पुण मायावी, किरियाजुत्तो उ तह चेव ॥२७६॥ किरियाण अइसंधति, इतरं मायाए तग्गयाए उ । एवं पायं कालो, संलेहण मो उ सोहम्मे ॥२७७॥ अब्भिंतरपरिसाए, पणपलियाऊ महिड्डिया जाया । आमलकप्पोसरणे, णट्टविहिविवज्जओ तेसिं ॥२७८॥ एवंविउव्वइस्सं, एवं चिय तत्थ होति एक्कस्स । इयरस्स उ विवरीयं, जाणगपुच्छा गणहरस्स ॥२७९॥ भगवंत कहण मायादोसो किरियागतो उ एसोत्ति । अणुगामिओ य पायं, एवं चिय कइचि भवगहणे ॥२८०॥ अथ संग्रहगाथाक्षरार्थः
'संघाडग'त्ति संघाटको हुताशनज्वलनशिखालक्षणो भर्तृभाभावरूपः । 'सज्झिलम'त्ति भ्रातरौ ज्वलनदहननामकौ । कुटुम्बकमित्थं जनचतुष्टयरूपं सम्पन्नभववैराग्यं पाटलिपुरे धर्मघोषगुरुपार्श्वे प्रव्रजितं सत् करोति 'तपो'ऽनशनादि 'प्रव्रज्यां' चैवाशेषां साधुसामाचारीरूपां 'यथाशक्ति' स्वसामर्थ्यानुरूपमिति ॥२७५॥
ज्वलनदहनयोर्मध्ये 'नवरं' केवलमृजुभावः सरलाशयः सन् तयोर्द्वयोर्धात्रोः 'प्रथमको' ज्वलननामा 'सम्यग्' यथावत्तपः प्रव्रज्यां च करोति । 'द्वितीयः पुनः' दहननामा मायावी शाठ्यबहुलः सन् ‘क्रियायुक्तस्तु' प्रत्युपेक्षणाप्रमार्जनादिसामाचारी सम्पन्नस्तथैव ज्वलनवदेव ॥२७६॥