________________
૪૧૬
64हे श५६ : भाग-१ ___वर्षे' वर्षाकाले सञ्जाते स्थण्डिलकरणं तृणकाष्ठाद्यपनयनेन कालेन चोष्णकाललक्षणेन वनदवे प्रवृत्ते तत्र स्थण्डिले 'स्थानं' स्थितिः सञ्जाता तस्य । अन्येषामपि जीवानां तत्र स्थानमिति सम्बध्यते । ततः 'संवर्ते'ऽत्यन्तसम्बाधलक्षणे वर्तमाने पादकण्डूयनं निजाङ्गस्य पादेन कण्डूनमारब्धं भवतेति ॥२६९॥
'तद्देशे' पादप्रदेशे 'शशस्थानं' शशकजीवस्थितिर्जाता । अनुकम्पया त्वया पादसंवरणं विहितम् । 'तथेति' समुच्चयार्थो भिन्नक्रमश्च । ततो भवपरीत्तकरणं संसारतुच्छभावसम्पादनं 'मणुयाउय'त्ति मनुष्यायुश्च निबद्धम् । तृतीये दिने पतनं भूमौ सम्पन्नमिति ॥२७०॥
ततोऽत्र राजगृहे जन्म । धर्मश्चारित्रभावलक्षणः। तस्मिन् मृगकलेवरे मृगस्याटव्यजन्तोः सतः, अथवा मृगस्याप्रबुद्धस्य सतो यत् कलेवरं तत्र ये शृगालादयो जीवा भक्षकतया लग्नाः प्राग्भवे, तेषामिति गम्यते, तथा सहनतो यथा लग्नाधिसहनाच्चकाराच्छशकानुकम्पया च गुण उपकार एषः प्रव्रज्यालाभलक्षण इत्येतच्छ्रुत्वा गतस्तु गतश्च संवेगम् ॥२७१॥
मिथ्यादुष्कृतशुद्धं 'मिथ्यादुष्कृतं शुद्धं मेऽस्तु' एवंरूपप्रायश्चित्ताद् निर्मलं चरणमन्तश्चारित्रपरिणतिरूपं कृत्वा तथैव प्रव्रज्यां यावज्जीवमेव शुद्धप्रवृत्तिरूपाम्, 'विजयोपपातो' विजयविमानोपपत्तिर्जन्मान्तरे तथा 'सिझणा चेव'त्ति सिद्धिश्च सम्पत्स्यत एव ॥२७२॥
कंटगखलणातुल्लो, इमस्स एसो त्ति थेवपडिबंधो । तत्तो य आभवंपि हु, गमणं चिय सिद्धिमग्गेण ॥२७३॥
कण्टकस्खलनातुल्यो मार्गे प्रवृत्तपथिककण्टकवेधसमोऽस्य मेघमुनेरेष इति चित्तसंक्लेशः । 'कीदृश' इत्याह-'स्तोकप्रतिबन्धः' परिमितविघ्नकारी । ततश्च प्रतिबन्धाद् उवृत्ताद् उत्तरकालं आभवमपि च गमनमेव सिद्धिमार्गेण सम्यग्दर्शनादिरूपेण॥२७३॥
अथ दहनसुरोदाहरणमभिधित्सुराहपाडलिपुत्त हुयासण, जलणसिहा चेव जलणडहणा य । सोहम्मपलियपणगं, आमलकप्पाय णट्टत्थे ॥२७४॥