SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ૪૧૫ 64हे श५६ : मास-१ वासे थंडिलकरणं, कालेण वणदवे तहिं ठाणं ।। अन्नाण वि जीवाणं, संवट्टे पायकंडूयणं ॥ २६९॥ तद्देसे ससठाणे, अणुकंपाए य पायसंवरणं । तह भवपरित्तकरणं, मणुयाउ य ततियदिणपडणं ॥२७०॥ एत्थं जम्मो धम्मो, तम्मि मयकलेवरे सिगालाई । तह सहणाओ जह गुणो, एसोत्ति गओय संवेगं ॥२७१॥ मिच्छादुक्कडसुद्धं, चरणं काउं तहेव पव्वजं । विजओववाओ जम्मंतरम्मि तह सिझणा चेव ॥२७२॥ अथ संग्रहगाथाक्षरार्थः-राजगृहे नगरे श्रेणिको नाम राजा धारिणी च तद्देवी 'गयसुमिण'त्ति गजस्वप्नस्तया दृष्टः ततस्तृतीये मासे दोहदो मेघविषयः समजायत। ततः 'अभए' इति अभयकुमारेण 'देवाराधनसंपत्ति' देवताराधनेन प्राप्तिस्तस्य कृता। पुत्रजन्म कालेन बभूव ॥२६४॥ मेघकुमारो नाम तस्य कृतम् । श्रावकसंवेगतस्तु श्रावकस्य भगवदन्तिके धर्म श्रुतवतः सतः प्रथमवेलायामपि यः संवेगो मोक्षाभिलाषलक्षणस्तस्मादेव प्रव्रज्या जातेति । 'संकुडवसति' द्वारे संकीर्णायां वसतौ द्वारदेशे शय्या संस्तारकभूमिरस्य संजाता ततो रात्रौ पादादिघट्टनया हेतुभूतया ॥२६५॥ कर्मोदयसंक्लेशश्चारित्रमोहोदयात् संक्लेशो मालिन्यरूपो जातः । कथं 'गिहिगोरव'त्ति गृहिणो मम सत एते मे गौरवमकार्षुस्ततो व्रजामि "तहिं 'त्ति गृहे, इति चिन्ता समुत्पन्ना। 'गोसे वीराभासण 'त्ति प्रभाते वीरेणाभाषणं कृतं यथा रात्रावित्थं भवांश्चिन्तितवानिति । सत्यमिति प्रतिपन्नं च तेनेति । उक्तं च भगवता न युक्तमेतत्तु इदं पुनस्ते इति ॥२६६॥ - यद्यस्मादितस्तु इत एव भवात् तृतीयजन्मनि त्वमासीहस्ती सुमेरुप्रभनामा । ततो वृद्धः सन् वनदवदग्धः सरोऽतीर्थेऽल्पसलिलेऽवतीर्णः सन् ॥२६७॥ गजभिन्नः दशनाभ्यां वेदनया 'सत्त दिण'त्ति सप्तदिनानि यावत् स्थित्वा मृतः । पुनर्गजो हस्ती जातः मेरुप्रभनामा यूथपतिः । 'वणदव 'त्ति पुनर्दवे प्रवृत्ते जातिस्मरो जातः । ततो विभाषा विविधार्थभाषणरूपा वक्तव्या, यथा मया पूर्वभवे इतो वनदवाद् मरणं प्राप्तं ततः करोमि प्रतिविधानमिति ॥२६८॥
SR No.022107
Book TitleUpdeshpad Granth Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages554
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy