SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ૩૯૦ उपहेशप : भाग-१ पत्रो विधास्यतीति । एवं निबिडनिबन्धं वणिज ज्ञात्वा भूयोऽपि भीमो जगाद-यद्येवं त्वं निपुणदर्शी तर्हि 'न परिणेमि' त्ति नाहं परिणेष्यामि काञ्चित् कुलबालिकाम् । अतो नास्त्येव मत्पुत्रसम्भव इति प्रतिज्ञाय कालेन व्रजता ब्रह्मचारी भीमकुमारः समजनि । इतिः परिसमाप्त्यर्थः ॥२४७॥ ___ एवं सम्पूर्णमनोरथेन वणिजा राज्ञे दत्ता चन्द्रलेखा । परिणीता च प्रशस्ते वासरे प्रचुरद्रविणव्ययेन । तया च समं विषयशानुभवतस्तस्य पुत्रः समभूत् । कृतश्च समुचितसमये स राजा । 'भीमो गिहबंभ' त्ति भीमोऽपि गृहस्थित एवाज्ञाभावितात्माऽपारसंसारपातभीतो निष्कलङ्कमब्रह्मविरतिव्रतं परिपालयन् दिनान्यनैषीत्। 'सक्कथुइ आणा' इति अथ कदाचिच्छक्रस्तदीयदृढव्रताभिप्रायमवेत्य सौधर्मसभायामुपविष्टस्त्रिविष्टपसदामग्रतः तस्य स्तुतिं श्लाघालक्षणां चकार-यथैष भीमकुमारः संक्रन्दनसहायैः सुरैरपि जगजनताचित्तचमत्कारकारणसौभाग्यादिगुणान्वितोऽपि ब्रह्मचर्यपरिपालनारूपायाः सर्वज्ञाज्ञायाश्चालयितुं न शक्यः, किं पुनर्मानवादिभिर्वराकैः । 'देवायल्लगगणिया' इति । ततो देवेन 'आयल्लग' त्ति देशीभाषया मदनज्वरातुरशरीरा वेश्या विकुळ दर्शिता । भणितश्च तजननीरूपधारिणा तेन-ममात्यन्तवल्लभेयं सुता त्वया असंपाद्यमानसमीहितसिद्धिरिति कष्टकालदशां प्राप्ता नियतं व्यापद्यते। निष्कृप! स्त्रीहत्योपेक्षकत्वेन हे निर्दय? अधर्मस्तथाविधानुष्ठानेनाप्यसाध्यसिद्धिः सम्पत्स्यत इति ॥२४८॥ ____ एवमुक्तस्यास्य व्याघ्रदुस्तटीन्यायमाकलय्य आज्ञाबहुमानकरणाद् यदभूत् तदाह-'आणाभावणजोगा' इति । आज्ञायास्तीर्थकृद्वचसो भावनाऽऽलोचना, यथा-"अपकारपरा एव, योषितः केन निर्मिताः । नरकागाधकूपस्य, समाः सोपानपङ्क्तयः? ॥१॥ दोषाणां राशयो ह्येताः, पराभूतेः परं पदम् । मोक्षाध्वध्वंसकारिण्यः, प्रत्यक्षा नूनमापदः ॥२॥ एता हसन्ति च रुदन्ति च कार्यहेतोविश्वासयन्ति च परं न च विश्वसन्ति। तस्मान्नरेण कुलशीलसमन्वितेन, नार्यः श्मशानघटिका इव वर्जनीयाः ॥३॥ सल्लं कामा विसं कामा, कामा आसीविसोवमा । कामे पत्थेमाणा, अकामा जंति दुग्गइं ॥४॥" इत्यादि, ततस्तया आज्ञाभावनया योगः-सम्बन्धस्तस्मात् सकाशात् किमित्याह-'रागाभावः'अभिष्वङ्गनाशोऽस्य धीरस्य वर्त्तते । तथा, आज्ञाबहुमानादेवैवं विचारितवानसौ, यथा'वयभंसपाव' त्ति व्रतभ्रंशे-ब्रह्मविरतिविनाशे ध्रुवं पापं स्यात्, यथोक्तम्-"वरं
SR No.022107
Book TitleUpdeshpad Granth Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages554
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy