________________
૩૮૯
७५हेशप : भाग-१
आणाभावणजोगा, रागाभावो इमस्स धीरस्स । वयभंसपाव वावत्ति रक्खणे सुकरुणा धम्मो ॥२४९॥ आयारामो जाओ, आणं सरिऊण वीयरागाणं । इय धम्मो सेसाणवि, विसए एयं करेंताणं ॥२५०॥
तगरायां पुरि प्रतिहतापरपुरीसमृद्ध्यभिमानतगरायां निजलावण्यजितरतिपत्याकारो रतिसारो नाम राजा समभूत् । पुत्रस्तस्य भीम इति समजायत । स च मुक्तबालभावः साधुसकाशं-तथाविधधर्माचार्यान्तिकं पित्रा नीतः सन् धर्मम्-उक्तरूपं श्रुत्वा प्रतिबुद्धोलब्धबोधिः सम्पन्नः ॥२४५॥
चिन्तितं चानेन परमोपकारी-अत्यन्तहितविधायी मे तातो येनाहं सकलत्रिलोकसारभूते जैनधर्मे नियोजितः । ततोऽस्य प्राणप्रदानेनापि प्रत्युपकर्तुमशक्यमिति सदा-सर्वकालमप्रियम्-अनिष्टं न कर्त्तव्यं मया । एवंरूपं गृहीत्वाऽभिग्रह-नियमम् । ततः-तदनन्तरं गृहस्थित एव श्रावकधर्म-श्रमणोपासकजनोचितानुष्ठानं शरच्छशरधरकरनिकरप्राग्भारनिर्मलं सम्यग्दर्शनमूलाणुव्रतगुणवतशिक्षाव्रतलक्षणम्, कीदृशमित्याह-सुखं स्वग्र्गापवर्गसमुद्भवशर्महेतुत्वात् सुखं वा यथा भवत्येवं, चरति-आसेवते, वर्तमानकालादेशस्तत्कालापेक्षयेति ॥२४६॥
एवं प्रतिवासरमपूर्वापूर्वपवित्रपरिणामपरंपरामधिरोहतः सतो भीमस्य याति कालः । वणिकत्ररायरागेत्ति वणिजः-सागरदत्तनामधेयस्य कन्या चन्द्रलेखाभिधाना श्रृङ्गारक्षीरनीरधिलहरी सुभगलावण्योपहसितामरसुन्दरीका हर्म्यतलगता काञ्चनकन्दुकक्रीडारसमनुभवन्ती वातायनस्थितस्य राज्ञो रतिसारस्य लोचनमार्गमागता । ततस्तदीयराजहंसानुसारिसलीलगमनादिगुणाक्षिप्तमानसोऽसौ तद्गोचरे रागे अभिष्वङ्गलक्षणे सम्पन्ने सति दारुणां मदनावस्थामाससाद । तदवस्थं च तं समुपलभ्याऽवोचद् मन्त्री-देव ! किमिदमकाण्ड एव युष्मच्छरीरस्यापाटवम्?, तेनापि नास्य गोप्यमस्तीति परिभाव्य निवेदितं निजस्वरूपं, ततो मन्त्री सागरदत्तगृहं गत्वा वरणं चन्द्रलेखायाः कर्तुमारब्धः । सागरदत्तेन चोक्तं 'नो पुत्तरज'त्ति नो-नैवाहं राज्ञे स्वपुत्रीं प्रयच्छामि, यतस्तस्य भीमनामा राज्याहः पुत्रोऽस्ति स राजा भविष्यति न मत्पुत्रीपुत्र इति । ततो ज्ञातवृत्तान्तेन भीमेनोक्तम्-'न करेमि'त्ति नाहं राज्यं करोमीति देहि राज्ञे कन्याम् । ततः पुनरपि वणिजोक्तं-यदि त्वं पितुरप्रियं परिजिहीर्षुर्न करिष्यसि राज्यं, तथापि तव