________________
૩૪૧
64हेश५६ : (भाग-१
इहैषणाः सप्त भक्तगोचराः पानगोचराश्च, तत्रासंसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेषं च देयद्रव्यं यत्र सा प्रथमा १ एतद्विलक्षणा द्वितीया २ पाकस्थानादुद्धृत्य स्थानान्तरनिक्षिप्तदेयद्रव्यगोचरत्वेनोद्धृतानामिका तृतीया ३ तस्यैव चाल्पलेपस्य वल्लचणकादेर्ग्रहणरूपा चतुर्थी ४ भोजनशालानिक्षेपणभोक्तृलोकावग्रहायातस्य भक्तादेर्ग्रहणलक्षणाऽवगृहीता नाम पञ्चमी ५ भोजनभाजननिक्षिप्तलक्षणा प्रगृहीता नाम षष्ठी ६ भोजनशालाप्रवृत्तस्य भोक्तृलोकेनानिष्यमाणस्यात एवोज्झितकनामकस्यानादेर्ग्रहणरूपा उज्झितानामिका सप्तमी ७ तत्र जिनकल्पिकस्याद्याभ्यामेषणाभ्यां भक्तपानयोरग्रह एव, उपरितनीषु पञ्चस्वेषणासु योग्यरूपतया ग्रहो वर्त्तते, परं तास्वपि एकत्र दिवसे द्वयोरभिग्रहो यथैकया कयाचिद् भक्तमेकया च पानकं ग्राह्यमिति, तदुक्तम्-"संसट्ठमसंसट्ठा, उद्धड तह अप्पलेवडा चेव । उग्गहिया पग्गहिया, उज्झियधम्मा य सत्तमिया ॥१॥" तथा 'पंचसु गह दोसभिग्गहो भिक्खा' इति । अत्र प्रथमतः संसट्ठपदोपादानं छन्दोभङ्गभयात्, तत आसामेषणानां शुद्धिः निर्दोषता आदिशब्दात् "तवेण सत्तेण सुत्तेण एगत्तेण बलेण य । तुलणा पंचहा वुत्ता, जिणकप्पं पडिवजउ "॥१॥ इत्येवंरूपतुलनापञ्चकग्रहः, तद्युक्तः सन् वसुभूतिश्रेष्ठिगृहे 'कारणगतेन' कुटुम्बप्रतिबोधप्रयोजनप्राप्तेन 'दृष्टो'ऽवलोकितो 'गोचरवर्ती,' भिक्षां भ्राम्यन्नित्यर्थः, 'इतरेण' सुहस्तिनाऽभ्युत्थानविषयः कृतो "विधिना' संभ्रमप्रकाशनालक्षणेन ॥२०४॥ _ 'सेट्ठिस्स विम्महो' इत्यादि, श्रेष्ठिनो वसुभूतेर्विस्मयः आश्चर्यमभूत्-अहो ! एभ्यः किं कश्चिद् अयं महान् वर्त्तते? इति । खलु वाक्यालङ्कारे । तद्गुणकथनायां सुहस्तिना कृतायां, तथा चेति समुच्चये, भिन्नक्रमश्च, ततो बहुमानश्च तत्र जातः श्रेष्ठिनः । 'ठिइसवणुज्झियधम्म' इति स्थितिश्रवणेन तदीयसमाचाराकर्णनेन भक्तपानकं उज्झितधर्मकं प्रवर्तितम् । ननु वसुभूतिरार्यसुहस्तिसमीपे श्रुतसाधुसमाचारः कथमित्थमनेषणां प्रवर्तितवानित्याशङ्कयाह–प्रायो बाहुल्येनानाभोगेन शास्त्रार्थापर्यालोचनेन उपलक्षिता या श्रद्धा दानाभिलाषरूपा तया विहितमिति ॥२०५॥
'उपयोगेन' मनोविमर्शरूपेण, 'परिज्ञानं' उज्झितधर्मकस्योपेत्यकृतस्यावबोधोऽभूत् । अस्य कथना संध्यायाम्-आवश्यककाले सुहस्तिनोऽनेषणायाः कृता । ततोऽपक्रमणं ततः पुराद् विहितं तेन 'वइदिसं'ति अवंतीविषये उज्जयिनीं गतः ।