________________
उ४०
ઉપદેશપદ : ભાગ-૧
अर्थतत्संग्रहगाथां स्वयमेव शास्त्रकारः गाथानवकेन व्याख्यानयन्नाहदो थूलभद्दसीसा, जहोइया आइमो य इयरत्ति । ठविउं गच्छेऽतीओ, कप्पोत्ति तमासिओ किरियं ॥२०३॥ एसणसुद्धातिजुओ वसुभूतिगिहम्मि कारणगएण । दिट्ठो गोयरवत्ती, इयरेणऽब्भुट्टिओ विहिणा ॥२०४॥ सेट्ठिस्स विम्हओ खलु, तग्गुणकहणाएँ तह य बहुमाणो । ठितिसवणुज्झियधम्मं, पायमणाभोगसद्धाए ॥२०५॥ उवओगपरिन्नाणं, कहणाऽवक्कमण वइदिसं तत्तो । संभासिऊण गमणं, कालट्ठा एलगच्छं ति ॥२०६॥ मिच्छत्तसड्डिहासो, पच्चक्खाणम्मि तह सयग्गहणं । वारण पवयणदेवय, सज्झिलगोगाहिमा भोगे ॥२०७॥ तलघायअच्छिपाडण, सड्डीउस्सग्ग देव उद्दाहो । एलच्छि बोहि नगरं, तओ य तं एलगच्छंति ॥२०८॥ तत्थ य दसन्नकूडो, गयग्गपयगो दसन्नरायम्मि । वीरे इड्डी बोहण, एरावयपयसुजोगेणं ॥२०९॥ दंता पुक्खरिणीओ, पउमा पत्ता य अट्ठ पत्तेयं । एक्कक्क रम्मपेच्छण, नरेंदसंवेग पव्वज्जा ॥२१०॥ एयम्मि पनखेत्ते, तेणं कालो कओ सुविहिएणं । तत्तो समाहिलाभो, अन्ने उ पुणोवि तल्लाभा ॥२११॥
अथ संग्रहगाथाक्षरार्थ:-'द्वौ स्थूलभद्रशिष्यौ' प्रागुक्तनामानौ यथोदितौ सत्यरूपावभूतां, तत्र 'आइमो य' त्ति आदिमो महागिरिः पुनः इतरम्-आर्यसुहस्तिनं, इति पूरणार्थः, स्थापयित्वा नायकत्वेन गच्छे, 'अतीतकल्पो' जिनकल्पसंज्ञ इतिकृत्वा तां जिनकल्पसम्बन्धिनीमाश्रितः प्रतिपन्नः 'क्रियां' वचनगुरुत्वादिकां सामाचारीम् । यथोक्तं धर्मबिन्दौ "वचनगुरुता, अल्पोपधित्वं, निष्पूतिकर्मशरीरता, अपवादत्यागः, ग्रामैकरात्र्यादिविहरणं, नियतकालचारिता, प्राय ऊर्ध्वं स्थानं, देशनायामप्रबन्धः, ध्यानैकतानत्वमिति" 'वचनगुरुता' इति वचनमेवागम एव गुरुः धर्माचार्यो यस्य स तथा तद्भावो वचनगुरुता ॥२०३॥