________________
૩૪૨
64हेश५६ : भाग-१ तत्र च जीवत्स्वामिनी प्रतिमां वन्दित्वा तत उज्जयिन्याः संभाष्य-सम्बोध्य श्रमणसंघं गमनं कालार्थ-चरमकालाराधनानिमित्तमेलकाक्षं नगरं प्रति । इति परिसमाप्तौ ॥२०६॥
अथास्योत्पत्तिनिमित्तमाह -'मिच्छत्तसड्डिहासो' इति मिथ्यात्वाद्-विपर्यासाद् भा कस्याश्चिच्छाद्धायाः सन्ध्याकाले उपहासः प्रत्याख्याने विषयभूते क्रियमाणे कृतः । कदाचिच्च दुर्विनीततया तथा यथा सा श्राद्धा गृह्णाति तथा स्वयमात्मनैव तया अप्रेरितेनेत्यर्थः ग्रहणं कृतं प्रत्याख्यानस्य, तेन । 'वारण' त्ति वारणं प्रत्याचक्षाणस्य तया विहितं, तथापि न स्थितोऽसौ । ततः 'पवयणदेवय' त्ति तस्मिन्नुपहासे कृतें सरोषया प्रवचनदेवतया 'सज्झिलगोगाहिमा' इति भगिनीरूपया भूत्वा उद्ग्राहिमा मोदकादयः पक्वान्नभेदाः समर्पिताः । तेन च तेषां भोगे' भोजने कृते सति ॥२०७॥
देवतया 'तलघायअच्छिपाडण' त्ति तलघातेन-हस्ततलप्रहारलक्षणेनाक्षिपातना नयनपातरूपा कृता । 'सड्डीउस्सग्ग' त्ति श्राद्धया उत्सर्ग:-कायोत्सर्गलक्षणो 'देव' त्ति देवताया आराधनाय कृतः, 'उद्दाहो' इति उत्कृष्टः सर्वापरदाहातिशायी सकलकुशलप्ररोहहेतोर्धर्मबीजस्य दाहो-भस्मीकरणमुद्दाहः समभूत् । ततः 'एलगच्छत्ति एडकस्य तत्कालव्यापद्यमानस्याक्षिणी तदक्षिस्थाने नियोजीते । लग्ने च ते । तदनु बोधिः-जिनधर्मावाप्तिर्लब्धप्रत्याख्यानभङ्गप्रत्ययाऽस्य संजाता । नगरं 'ततश्च'-तस्मादेव निमित्तात् 'तद्' दशार्णपुरं एडकाक्षमिति प्रसिद्धम् ॥२०८॥ .. तत्र चैडकाक्षे नगरे दशार्णकूटो नाम पर्वत आसीत् । स च गजाग्रपदक इति यथा जातस्तथोच्यते । 'दशार्णराजे' दशार्णदेशनायके दशार्णभद्रनाम्नि राज्यं पालयति सति 'वीरे' चरमतीर्थपतौ दशार्णकूटे शिखरिणि समवसृते, ऋद्धिः शक्रसम्बन्धिनी यदा दशार्णभद्रेण दृष्टा तदा स्वसमृद्धावनादरेण 'बोहण'त्ति बोधनं सर्वचारित्रप्रतिपत्तिलक्षणं संवृत्तं दशार्णभद्रराजस्य । तथा ऐरावणपदसुयोगेन गजाग्रपदकः स पर्वतो रूढः ॥२०९॥
अथ शक्रविभूतिमेव दर्शयति -तत्र शक्राध्यासिते ऐरावणे दन्ता अभवन् । तेषु च पुष्करिण्यः, तासु च पद्माः, तेषु च पत्राणि, अष्टौ अष्टसंख्यया प्रत्येक एकैकं दन्तपुष्करण्यादिकं जातम् । तत्रैकैकस्मिन् पत्रे रम्यप्रेक्षणकं द्वात्रिंशत्पात्रबद्धं दृष्ट्वा 'नरेन्द्रसंवेगो' दशार्णभद्रराजस्य संवेगो जातः । ततस्तत्क्षणादेव प्रव्रज्या समजनीति ॥२१०॥