________________
૨૯૮
ઉપદેશપદ : ભાગ-૧ कालेणं बहुएणं, भोयणपुव्वं तहेव जायणया । पढमा सरणविलक्खा, तह बितिया ततिय अप्पिणणं ॥१७६ ॥ चरिमाए कोचिगाओ, खेत्ताओ तुम्ह वयणपालणया । सा एवं चिय इहरा, सत्तिविणासा ण सम्मं ति ॥१७७॥ तब्बंधूणभिहाणं, तुब्भे कल्लाणसाहगा मेत्ति । किं जुत्तमेत्थ मज्झं, ते आहु तुमं मुणेसि त्ति ॥१७८॥ तत्तो य कज्जवुज्झण-कोट्टण-भंडार-गिहसमप्पणया । जाहासंखमिमीणं, नियकजं साहुवाओ य ॥१७९॥
अथ गाथाक्षरार्थः-राजगृहे नगरे धनदत्तो श्रेष्ठी समभूत् । तस्य च सुभद्राभार्याकुक्ष्युद्भवा धनपालादयो धनपाल-धनदेव-धनगोप-धनरक्षिताः सुता सुसूनवश्चत्वारः समजायन्त । 'उज्झिय' त्ति उज्झिका, भोगवती, रक्षिका, च तथा रोहिणी 'वहुगा' इति वधूट्यः समपद्यन्त ॥१७२॥
"वयपरिणामे चिंता, गिहं समप्पेमि तासि पारिच्छा । भोयणसयणनिमंतण, भुत्ते तब्बंधुपच्चक्खं" ॥१७३॥२॥ वयःपरिणामे स्थविरभावलक्षणे धनस्य चिन्ता विमर्शरूपा समुदपद्यत, यथा- गृहं समर्पयामि आसां वधूनां मध्ये कस्याः ? इति । ततस्तासां परीक्षा प्रारब्धा । कथमित्याह- भोजनाय स्वजनानां उपलक्षणत्वाद् वधूसम्बन्धिनां च निमन्त्रणा आकारणरूपा भोजनस्वजननिमन्त्रणा कृता । ततो भुक्ते स्वजनलोके सति तद्बन्धुसमक्षं वधूबन्धुप्रत्यक्षम् ॥१७३॥
किमित्याह-प्रत्येकमेकैकस्या इत्यर्थः, 'अप्पिणणं'ति' अर्पणं स चकार पञ्चानां शालिकणानाम् इत्युत्तरेण योगः । कथमित्याह-'पालयध्वं' यूयं मार्गिताश्च सत्यो ददध्वमिति । इति भणित्वा 'आदरेण' यत्नेन स्वहस्तसमर्पणरूपेण 'पञ्चानां' पञ्चसङ्ख्यानां 'शालिकणानां' शालिबीजरूपाणाम् ॥१७४॥
तत्र च प्रथमया वध्वा उज्झितास्ते शालिकणाः, द्वितीयया ‘छोल्लिय'त्ति निस्तुषीकृता उपलक्षणत्वाद् भक्षिताश्च ते, इति पूरणार्थः । तृतीयया बद्धकरंडीरक्खण' त्ति बद्धानां शुचिवस्त्रेण करण्ड्यां निजालङ्कारसम्बन्धिन्यां क्षिप्त्वा रक्षणमारब्धम् । चरमया' रोहिण्या 'रोहिताः' प्रतिवर्ष वपनमानीता विधिना कर्षकलोकप्रसिद्धेनेति ॥१७५॥