________________
૧ ૨૨
ઉપદેશપદ : ભાગ-૧ સર્વ ગુણોમાં બુદ્ધિગુણ ચડિયાતો છે. કહ્યું છે કે- જ્ઞાનગુણ કલ્યાણોને જન્મ આપે છે, વિપત્તિઓને રોકે છે, યશોને દોડે છે, મળને સાફ કરે છે, સંસ્કારના શૌચથી બીજાને પવિત્ર કરે છે, ખરેખર શુદ્ધબુદ્ધિ કુળમાટે કામધેનુ છે. (૧) પૃથ્વી સમુદ્રથી ઢંકાયેલી છે, અર્થાત્ સમુદ્ર સુધી પૃથ્વી વિસ્તરેલી છે અને તે સમુદ્ર સો યોજન પ્રમાણ છે. હંમેશા સૂર્યથી ચલાયેલો માર્ગ આકાશનું પરિમાણ બતાવે છે. એ પ્રમાણે પ્રાયઃ ભાવો સ્કુરાયમાન થતા મર્યાદાની મહોરથી બંધાયેલા છે, અર્થાત્ સર્વ પદાર્થો મર્યાદાવાળા છે પરંતુ સજ્જનોનો પ્રજ્ઞા પ્રકાશ અસાધારણ સીમાને જીતે છે, અર્થાત્ જ્ઞાનની મર્યાદા નથી. (૭૯)
व्याख्यातं सप्रपञ्चं भरहसिलेत्ति द्वारम् । अथ पणियत्ति द्वारम्पणिए बहूयलोमसि, भक्खणजय दारणिप्फिडगमोए । चक्खण खद्धा विक्कय, भुयंग दारे अणिप्फेडो ॥८०॥ 'पणिए' इति द्वारपरामर्शः । कश्चिद् ग्रामेयकः स्वभावत एव मुग्धबुद्धिः कचिन्नगरे धूर्तलोकबहुले 'बहूयलोमसि'त्ति बहुकाः शकटभरप्रमाणा'लोमसिकाः' कर्कटिकाः समादाय विक्रयार्थं गतवान् । तासु च विपणिपथावतारितासु केनचिद्धर्तेन स उक्तः, यथा-'भक्खणजय' त्ति यदि कश्चिदेताः सर्वा भक्षयति तदा त्वं किं तेन जीयसे ? तेन चासंभाव्योऽयमर्थ इति मनसि मत्वाऽसंभवनीयमेव पणितकं निबद्धं, यथा 'दारणिप्फिडगमोए' इति यो नगरद्वारेण मोदको न निर्गच्छति तं तस्य प्रयच्छामि । ततस्तेन तल्लोमसिकाशकटमारुह्य 'चक्खण'त्ति दन्तनिर्भेदमात्रेण 'खद्ध'त्ति सर्वासामपि तासां भक्षणं कृतम् । 'विक्कय' त्ति विक्रेतुमारब्धश्चासौ ताः, न च लोको गृह्णाति 'भक्षिताः केनाप्येताः' इति प्रवदन् सन् । ततो धूर्तेन लोकप्रवादसहायेन जितो ग्रामेयकः। तदनु तं मोदकं याचितुमारब्धः । ग्रामयेकच अशक्यदानोऽयं मोदक इति कृत्वा तस्य रूपकं प्रयच्छति, स नेच्छति, एवं द्वे त्रीणि यावच्छतमपि नेच्छत्यसौ । चिन्तितं च ग्रामेयकेण नैतस्माद्धर्त्तान्मम कथंचिन्मुक्तिरस्ति इति निपुणबुद्धिपरिच्छेद्योऽयं व्यवहारः, 'चतुरबुद्धयश्च प्रायो द्यूतकारा एव भवन्ती' ति तानेवावलगामि । तथैव च कृतं तेन । पृष्टश्चासौ तैः, यथा-भद्रक ! किमर्थमस्मान्निरन्तरमासेवसे त्वं ?। भणितं च तेन, यथा-ममैवंविधं व्यसनमायातमिति । ततो 'भुयंग दारे अनि फेडो' इति भुजङ्गै तकारैरसावेवं शिक्षितो यथा पूतिकापणे मुष्टिप्रमाणमेकं मोदकं गृहीत्वा तद्भूर्तसहायः शेषनगरलोकसहायश्च प्रतोलीद्वारे गत्वा इन्द्रकीलस्थाने तं विमुच्य प्रतिपादय यथा निर्गच्छ भो मोदक ! इति । विहितं च तेनैवं, परं द्वारे मोदकस्य अणिप्फेडो निष्काशनाभावः संपन्नः । प्रतिजितश्चासौ तेन । एवं च द्यूतकाराणामौत्पत्तिकी बुद्धिरिति ॥८०॥