SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ CG धोSAS S२- युक्तः कार्यः नियमान्- निश्चयेन अयं-कुशलाशयो अस्य जनस्य बोध्यङ्गबोधिहेतुरतश्च परोपकार-गुणात्कारयितुर्महान् लाभः ॥६॥ दलमिष्टकादि तदपि च शुद्धं तत्कारिवर्गतः क्रीतम्। उचित-क्रयेण यत्स्यादानीतं चैव विधिना तु ॥७॥ : विवरणम् : 'दलं च दार्वादि' इत्युक्तं तदाह - दलमित्यादि । दलमिष्टकादितदपिच शुद्धं, आदिग्रहणात्पाषाणादिग्रहः, कीदृक्-शुद्धं ? तत्कारिबर्गतःक्रीतं उचितक्रयेण यत्स्यात्-तत्करणशीलास्तत्कारिणः-स्वयमेव प्रवृत्ता इष्टकादिषु तद्वर्गात् क्रीतमुचितमूल्येन यत्तच्छुद्धं, आनीतं चैव विधिना तु-लोकशास्त्रदृष्टेन ॥७॥ : योगदीपिका : दलं च दादीत्युक्तं तत्राह - दलमित्यादि । दलं जिनभवनोपादानम् इष्टकादि आदिना पाषाणादि । तदपि शुद्धं कीदृक् शुद्धं ? यत्तत्कारिणां स्व-प्रयोजन-सिद्ध्यर्थमेवेष्टकादिकरणशीलानां पुरुषाणां वर्गतः-समूहाद् उचितक्रयेणोचितमूल्येन क्रीतं-स्वीकृतं, तु-पुनः, विधिना लोकशास्त्रदृष्टेन भारवाहकापरिपीडनादिलक्षणेन आनीतं चैव ॥७॥ दार्वपि च शुद्धमिह यत्नानीतं देवताद्युपवनादेः । प्रगुणं सारवदभिनवमुच्चैम्रन्थ्यादिरहितं च ॥८॥ : विवरणम् : दल-विशेष-गतमेवाह-दार्वपीत्यादि । दार्वपिचशुद्धमिहज्ञेयमिति गम्यते यत्नानीतं देवताधुपवनादेः-देवतादीनामुपवनं तत्समीपवर्ति, आदिग्रहणाद् देवपुरुष ग्रहो द्वितीय-आदि-शब्दात् तिर्यग्-मनुष्य-सम्बन्धिकानन-ग्रहः, दारुविशेषणमाह-प्रगुणम्-अवकं सारवत्-स्थिरं खदिरसारवद् अभिनवं -प्रत्यग्रं न जीर्णम्, उच्चैः-अत्यर्थं, ग्रन्थ्यादिरहितं च-ग्रन्थ्यादि-दोषविकलम् ॥८॥ બોધિની પ્રાપ્તિનું કારણ બને છે અને જિનમંદિર બનાવનારને પણ એ રીતે પરોપકાર થવાથી મહાન લાભનું કારણ છે. ૬ | (૨) દલ :- ઈંટ, પાષાણ વગેરે સામગ્રી શુદ્ધ હોવી જોઈએ. એટલે કે ઇંટ વગેરે બનાવનારાઓ પાસેથી યોગ્ય કિંમતથી ખરીદેલી હોવી જોઈએ. ઓર્ડર આપીને બનાવરાવેલી નહીં, પરંતુ એ લોકોએ પોતાના ધંધા માટે બનાવી હોય એ સામગ્રી યોગ્ય કિંમતથી લેવી, એ શુદ્ધ કહેવાય. ૭. ઇંટ વગેરે સામગ્રી પણ વિધિપૂર્વક લાવેલી હોવી જોઈએ અર્થાત્ મજૂર વગેરે ઉપર
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy