________________
ષોડશક પ્રકરણ - ૪ उत्पादेन, अलम्- अत्यर्थं धर्मसिद्धिफलदं वर्तते । जनप्रियस्य हिधर्मः प्रशंसास्पदं भवति, ततश्च लोकानां बीजाधानादिधर्मसिद्धिरिति तत्प्रयोजकतया जनप्रियत्वं युक्तमित्युत्तानार्थः प्रकटार्थः स्पष्टार्थः ॥७॥
आरोग्ये सति यद्वद, व्याधिविकारा भवन्ति नो पुंसाम् । तद्वद्धर्मारोग्ये, पापविकारा अपि ज्ञेयाः ॥८॥
:विवरणम् : एवं धर्मतत्त्वलिङ्गान्यौदार्यादीनि विधिमुखेन प्रतिपाद्य धर्मतत्त्वव्यवस्थितानां पुंसां व्यतिरेकमुखेन विषयतृष्णादीनां स्वरूपं प्रतिपिपादयिषुदृष्टान्तपूर्वकं विकाराभावमाविर्भावयितुमाह-आरोग्य इत्यादि।
आरोग्ये-रोगाभावे सति-जायमाने यद्वदिति-यथा व्याधिविकारा-रोगविकारा भवन्ति नो पुंसां-आरोग्यवतां तद्वदिति-तथा धर्मारोग्ये-धर्मरूपमारोग्यं तस्मिन् सति, पापविकारा अपि वक्ष्यमाणा न भवन्तीति विज्ञेयाः ॥८॥
: योगदीपिका : एवं प्राथमिकगुणरूपाणि धर्मतत्त्वस्य लिङ्गान्यभिधाय दोषाभावरूपाणि तानि वक्तुमुपक्रमते-आरोग्य इत्यादि।
आरोग्ये-रोगाभावे सति यद्वदिति-यथा व्याधिविकाराः पुंसां नो भवन्ति तद्वदितितथा धर्मलक्षणे आरोग्ये सति पापविकारा अपि ज्ञेया, अभवनशीला इति शेषः ॥८॥
तन्नास्य विषयतृष्णा, प्रभवत्युच्चॆर्न दृष्टिसम्मोहः । अरुचिर्न धर्मपथ्ये, न च पापा क्रोधकण्डूतिः ॥९॥
विवरणम् : पापविकारा ये न भवन्ति तान् विशेषतो निर्दिशति - तन्नास्येत्यादि।
तद्-एवं स्थिते न अस्य-धर्मतत्त्वयुक्तस्य पुरुषस्य विषयतृष्णा-वक्ष्यमाणलक्षणा प्रभवति-जायते, उच्चैः- अत्यर्थं न दृष्टिसम्मोहो-वक्ष्यमाणलक्षण एव, अरुचिः
આ રીતે ધર્મપ્રાપ્તિના સૂચક ઔદાર્યાદિ લિંગો બતાવ્યાં પછી હવે એ ધર્માત્માઓમાં અતિવિષયતૃષ્ણા વગેરે પાપવિકારો ન હોય, એ હકીકત દાંતપૂર્વક બતાવે છે. ધર્મના ગુણ સ્વરૂપ ઉદારતા વિગેરે લિંગોનું નિરૂપણ કરીને ધર્મના દોષત્યાગ રૂપ લિંગોનું વર્ણન કરે છે.
રોગ થયા પછી અને આરોગ્ય પ્રાપ્ત થયા પછી રોગજન્ય વિકારો (પીડાઓ) હોતા નથી, તેમ ધર્મ-આરોગ્ય પ્રાપ્ત થયા પછી પાપવિકારો પણ હોતા નથી. એ પાપવિકારોનું સ્વરૂપ આ प्रभारी छ.८
ધર્મ સિદ્ધ થયેલા આત્માઓમાં જેમ ઔદાર્ય આદિ પાંચ લક્ષણો-ગુણો દેખાય છે, તેમ