________________
ષોડશક પ્રક્રણ - ૧૫
(२०) अपरं-अर्वाग्भागवर्ति परस्मादन्यत् तत्त्वं-परमार्थरूपं ध्येयं तद्वर्तते, यद्वशतस्तु-यद्वशादेव यत्सामर्थ्यादपरतत्त्वसामर्थ्यादित्यर्थः, अस्ति-भवति-अतोऽपि-अपरतत्त्वाद् अन्यत्परतत्त्वं-मुक्तिस्थम् । इदमुक्तं भवति-सर्वस्यापि ध्यानपरस्य योगिनोऽपरतत्त्ववशात्परं तत्त्वमाविर्भवतीति ॥६॥
: योगिदीपिका : तथा - चरमेत्यादि । चरमावञ्चकयोगात्-फलावञ्चकयोगात्प्रागुक्तात्, प्रतिभैवप्रातिभं-दृष्टार्थविषयो मतिज्ञानविशेषस्तेन सञ्जाता तत्त्वदृष्टिर्यस्य स तथा, भवतीति सर्वविशेषणसङ्गता क्रियाध्याहार्या, इदं-अनुपदोक्तफलं सालम्बनध्यानद्वारा प्रत्यक्षीकृतं जिनेन्द्र-रूपं अपरं परस्मादन्यदर्वाग्भागवर्ति, तत्त्वं-परमार्थरूपं ध्येयं तद्वर्तते यद्वशतस्तुयदपरतत्त्वसामर्थ्याद् अस्ति-जायते अतोऽपि-अपरतत्त्वादपि अन्यत्परतत्त्वं मुक्तिस्थम् । इदमुक्तं भवति - सर्वस्यापि ध्यानपरस्य योगिनोऽपरतत्त्ववशात्पर-तत्त्वमाविर्भवति ॥६॥
तस्मिन् दृष्टे दृष्टम्, तद् भूतं तत् परं मतं ब्रह्म । तद्योगादस्यापि, ह्येषा त्रैलोक्य-सुन्दरता ॥७॥
: विवरणम् : कस्मात्पुनः परं तत्त्वमेवं संस्तूयत इत्याह - तस्मिन्नित्यादि ।
तस्मिन्-परतत्त्वे सिद्धस्वरूपे दृष्टे-समुपलब्धे दृष्टं सर्वमेव वस्तु भवति, जीवाद्यमूर्तवस्त्वालम्बनस्य बोधस्य सर्वविषयत्त्वात्, तद् भूतं-तदेव सिद्धस्वरूपं भूतंसत्यं संसारिजीवस्वरूपस्य ज्ञानावरणादिकर्मावृतस्य सद्भूततत्त्ववियोगात्, कर्ममल-मलिनस्य ह्यात्मनो न भूतं रूपमपलक्ष्यते, तद्विकारैरुपद्रूयमाणत्वात्, सिद्धस्थरूपस्य तु निरुपद्रवत्त्वाद्भूतमेव स्वरूपं सर्वदा समुपलभ्यते, नेतरत् । तदेव-परमात्मस्वरूपं परंप्रकृष्टं मतं-अभिप्रेतं ब्रह्म-महत्, बृहत्तमं न ततोऽन्यदस्ति, तद्योगात्-पर-तत्त्वंयोगाद्, अस्यापि हि-परतत्त्वविषयध्यानविशेषस्यानालम्बनयोगस्य,एषा-लोके लोकोत्तरेच प्रसिद्धा છે. એ સિદ્ધપરમાત્માનું સ્વરૂપ જ સત્ય છે, તાત્ત્વિક છે. સંસારીજીવનું સ્વરૂપ તો જ્ઞાનાવરણીયાદિ કર્મોથી આવરાયેલું હોવાથી સદ્દભૂત નથી, સત્ય કે શુદ્ધ નથી. તેથી સિદ્ધ પરમાત્માનું સ્વરૂપ જ ઉત્કૃષ્ટ બ્રહ્મ છે, અર્થાત્ મહાન છે. તેમનાથી ચઢિયાતું સ્વરૂપ જગતમાં બીજું કોઈ જ નથી અને નિરાલંબનધ્યાનનો વિષય પરતત્ત્વ હોવાથી લોક-લોકોત્તર શાસનમાં જાણીતી નિરાલંબન ધ્યાનની એ સુંદરતા ત્રણ લોકમાં પ્રસિદ્ધ છે. ૭.
प्रश्न: निराजन योग मेट | मने मेटो आहोय छ ?
ઉત્તરઃ નિરાલંબનધ્યાન, ક્ષપકશ્રેણિના અપૂર્વકરણમાં (દ્વિતીય) પ્રાપ્ત થતા સામર્થ્યયોગમાં હોય છે. પરંતુ ત્યાં પરતત્ત્વને જોવાની ઈચ્છા તથા અસંગ સક્તિ હોવી જોઈએ. અસંગ એટલે