SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ષોડશક પ્રકરણ - ૧૩ :: विवरणम् : इतिकर्तव्यतामाह - सर्वत्रेत्यादि। सर्वत्र-सर्वस्मिन् अनाकु लता-निराकु लता अत्वरा, यते भावःसामायिक रूपस्तस्य-अव्ययपरा-व्ययाभावनिष्ठा, अनाकुलतया यंतिभावाव्ययपरा न किञ्चिद्यतिभावाद् व्येति-अपगच्छतीतिकृत्वा तथोच्यते, विशेष्यत्वात् क्रियाऽभिसम्बध्यते, समासेन-सक्षेपेण कालादिग्रहणविधौकाल-स्वाध्यायादि-ग्रहण-विधि-विषया क्रिया-चेष्टा स्वशास्त्रप्रसिद्धा. इतिकर्तव्यता भवति इति एवंरूपा, कर्त्तव्यानां भावः कर्त्तव्यतोच्यते ।।६।। : योगदीपिका : इतिकर्तव्यतामाह-सर्वत्रेत्यादि । सर्वत्र-सर्वस्मिन् कालादि-ग्रहण-विधौ काल-स्वाध्यायादिग्रहणाचारे कालविभागप्रतिनियते क्रिया योगप्रवृत्तिः समासेन सङ्केपेण-इतिकर्तव्यता भवति । रात्रिन्दिव-नियतकमशुद्धक्रियासन्तानस्येतिकर्तव्यता-पदार्थत्वात्, कीदृशी सा ? अनाकुलतया-अत्वरया यतिभावस्य-सामायिकरूपस्य अव्ययपराऽव्यपगमनिष्ठा, बहुकालसाध्यक्रियायां त्वरया हि अप्रमत्तत्वलक्षणो यतिभावो व्येतीत्येतद्विशेषणमुक्तम् ॥६॥ इति चेष्टावत उच्चैर्विशद्धभावस्य सद्यतेः क्षिप्रम् । मैत्री-करुणा-मुदितोपेक्षाः किल सिद्धिमुपयान्ति ॥७॥ :विवरणम् : उक्ता साधुसच्चेष्टा, अधुना तद्वतो मैत्र्यादिसिद्धिमाह - इतीत्यादि । इति-एवमुक्त प्रकारेण चेष्टावतः-साधुचेष्टायुक्त स्य उच्चैः-अत्यर्थं विशुद्धभावस्य-विशुद्धाध्यवसायस्य सद्यते:-सत्साधोः क्षिप्रं-अचिरेणैव मैत्रीकरुणामुदितोपेक्षाः-पूर्वोक्ताश्चतस्रो भावनाः किल सिद्धिमुपयान्तिकिलेत्याप्तागमवादो, निष्पत्तिं प्रतिलभन्ते ॥७॥ थाय छे. ७. હવે મૈત્યાદિ ભાવનાઓની વિશેષ સ્પષ્ટતા કરે છે. ચારે ભાવનાઓ, ચાર-ચાર પ્રકારની છે. ભાવપરિણતિરૂપ આ ચારે ભાવનાઓ પરમ ઉત્કૃષ્ટભાવને પામે છે, ત્યારે આત્માને મોક્ષની પ્રાપ્તિ થાય છે. મોક્ષ પ્રાપ્ત થયા પછી ત્યાં આ ચાર ભાવના હોતી નથી. મોક્ષ સાંસારિક ભાવોથી પર થવારૂપ છે. મૈત્યાદિ ચાર ભાવનાઓ સાંસારિકભાવ સ્વરૂપ छ, तेथी मे भोक्षम होती नथी. ८.
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy