________________
ષોડશક પ્રકરણ - ૧૧
मोहविकारसमेतः पश्यत्याऽऽत्मानमेवमकृतार्थम् । तद्व्यत्ययलिङ्गरतं, कृतार्थमिति तद् ग्रहादेव ॥१४॥ सम्यग्दर्शनयोगाज् ज्ञानं तद् ग्रन्थिभेदतः परमम् । सोऽपूर्वकरणतः स्याज्ज्ञेयं लोकोत्तरं तच्च ॥१५॥ लोकोत्तरस्य तस्मान्महानुभावस्य शान्तचित्तस्य । औचित्यवतो ज्ञानं शेषस्य विपर्ययो ज्ञेयः ॥१६॥
:विवरणम् : 'विपर्ययो मोहतोऽन्य' इत्युक्तं, स पुनः क इत्याह - गुर्वादीत्यादि।
गुर्वादिविनयरहितस्य गुरूपाध्यायादिविनय-विकलस्य यस्तु-यः पुनर्मिथ्यात्वदोषतो-मिथ्यात्वदोषात्तत्वार्थाश्रद्धान-रूपाद्, वचनाद्-आगमाद्, दीप इव मण्डलगतो-मण्डलाकारो बोधः-अवगमस्तैमिरिकस्येव । स तथाविधो बोधो वचनाद् भवन्नपि अध्यारोपदोषतो विपर्ययो-मिथ्याप्रत्ययरूप: पदमात्रवाच्यार्थविषयः पापः स्वरूपेण वर्त्तते ॥१२॥
विपर्यय एव प्रस्तुते दृष्टान्तगर्भमुपनयमाह कारिकाद्वयेन-दण्डीत्यादि । मोहेत्यादि ।
दण्डीखण्डं प्रसिद्धं निवसनं-परिधानमस्येति दण्डीखण्डनिवसनस्तं भस्मादिभिर्विभूषितं-विच्छुरितं भस्मादिविभूषितं सतां-सत्पुरुषाणां शोच्यं-शोचनीयं पश्यति-अवलोकयति, आत्मानमलं-अत्यर्थं ग्रही-ग्रहवान् नरेन्द्रादपि ह्यधिकंचक्रवर्तिनोऽप्यधिकं यथेति गम्यते ॥१३॥ - मोहविकारसमेतो-मनोविभ्रमदोषसमन्वितः पश्यत्यात्मानमेवमकृतार्थं सन्तं विपर्ययबोधवान् कृतार्थमिति पश्यति, तस्य- कृतार्थस्य व्यत्ययेन यानि लिङ्गानि तेषु रतस्तं तद्व्यत्यय-लिङ्ग-रतम्, अनेनाकृतार्थत्त्वमेव वस्तुवृत्त्या दर्शयति, एवंविधोऽपि कृतार्थमिति कुतो मन्यते?, तद्ग्रहादेव-स चासौ ग्रहश्च तद्ग्रहः तस्मादेव-विवक्षित-ग्रहावेशादेव, एवं ग्रहगृहीतेन विपर्ययवत उपनयः कृतः ॥१४॥
આ ત્રણ જ્ઞાન સિવાયનું જ્ઞાન, મિથ્યાત્વદોષના કારણે અજ્ઞાન છે. એ હકીકતની હવે સ્પષ્ટતા કરે છે. જ્ઞાનદાતા ઉપાધ્યાયભગવંત આદિ ગુરુઓના વિનયથી રહિત આત્માનું, મિથ્યાત્વદોષના કારણે, આંખના તૈમિરિક દોષવાળાને જેમ દીવાની આજુબાજુમાં ગોળાકાર મંડળની ભ્રાંતિ થાય છે તેમ, આગમવચનથી થતો એવો બોધ પણ અજ્ઞાન છે, પાપનો હેતુ છે. ૧૨
હવે દષ્ટાંત આપવાપૂર્વક પ્રસ્તુત વિપરીત જ્ઞાનનો બે ગાથા દ્વારા ઉપસંહાર કરે છે.