________________
૧૫)
ષોડશક પ્રકરણ - ૧૧ ज्ञानविपर्यययोः स्वाम्युपदर्शनार्थमिदं कारिकाद्वयमाह- सम्यगित्यादि। लोकोत्तरेत्यादि।
सम्यग्दर्शनयोगात्-तत्त्वार्थ-श्रद्धान-सम्बन्धाद् ज्ञान-सम्यग्ज्ञानंतत्-सम्यग्दर्शनं ग्रन्थिभेदतो-ग्रन्थिभेदात् परमं-प्रधानं स्वरूपतो वर्तते, स-ग्रन्थिभेदो नियमत एवापार्द्धपुद्गल-परावर्त्ताधिक-संसारच्छेदीअपूर्वकरणतः स्याद्-अपूर्व-परिणामाद् भवेत्, 'ज्ञेयम् लोकोत्तरं तच्च' तच्च-अपूर्व-करणं लोकात् सर्वस्मादप्युत्तरं-प्रधानं ज्ञेयम्, अपूर्वकरणंअपूर्वपरिणामः शुभः, अनादावपि संसारे तेषु तेषु धर्म-स्थानेषु सूत्रार्थ-ग्रहणादिषु वर्तमानस्याप्यसञ्जातपूर्व इतिकृत्वा ॥१५॥ ___लोकादुत्तरः-प्रधानो ज्ञानवानिह गृह्यते, तस्य लोकोत्तरस्य, तस्मादिति निगमने, महानुभावस्य-अचिन्त्य-शक्तेःशान्तचित्तस्य-उपशान्त-मनसः औचित्यवत-औचित्ययुक्तस्य ज्ञानम्, अनेन ज्ञानस्वामी निदर्शितः, शेषस्य-उक्तगुणविपरीतस्य विपर्ययो-ज्ञेयो, ज्ञानत्रयादन्यः पद-मात्र-वाच्यार्थ-विषयः पूर्वोक्त इति ॥१६॥ इत्याचार्य- श्रीमद्यशोभद्रसूरिकृत- षोडशाधिकारविवरणे एकादश अधिकारः ॥
: योगदीपिका : उक्तं ज्ञानत्रयस्वरूपम्, अथैतद्विपर्ययस्वरूपमाह-गुर्वादीत्यादि।
गुर्वादीनामुपाध्यायादीनां विनयरहितस्य यस्तु मिथ्यात्वदोषतःतत्त्वार्थाश्रद्धान-दोषाद् वचनाद् आगमाद् दीप इव मण्डलगतो मण्डलाकारविषयो बोधस्तैमिरिकस्येव, स बोधो वचनाद्भवन्नपि दोषजत्वाद् विपर्ययो मिथ्या-प्रत्ययः पद-मात्र-वाच्यार्थविषयः पाप:पापहेतुः ॥१२॥
विपर्यय एव प्रस्तुते दृष्टान्त-गर्भमुपनयमाह-दण्डीत्यादि।
दण्डी-खण्डं-कृत-सन्धान-विशेषं जीर्ण-वस्त्रं तन्निवसनं-परिधानं यस्य स तथा तं। भस्मादिभिर्विभूषितं-विच्छुरितं सतां-सत्पुरुषाणां शोच्यं-शोचनीयं पश्यतिअवलोकयति अलम्-अत्यर्थमात्मानम्, ग्रही स्वाग्रहवान्, नरेन्द्रादपि हि-चक्रवर्तिनोऽपि हि अधिकम्-अतिशयितं यथेति गम्येति ॥१३॥
જેમ કોઈ માણસ સાંધાવાળું જીર્ણવસ્ત્ર પહેરે, ભસ્મ વગેરેથી વિભૂષિત થાય... આ એનું સ્વરૂપસન્દુરુષોને શોચનીય હોવા છતાં આગ્રહવશ એ પોતાની જાતને ચક્રવર્તી કરતાં પણ અધિક માને છે. એ જ રીતે વિપરીત બોધવાળો અજ્ઞાન અને માનસિક ભ્રમણાવાળો આત્મા પોતાનામાં કૃતાર્થતાનાં કોઈ લક્ષણ ન હોવા છતાં, અરે ! અકૃતાર્થતાનાં લક્ષણ હોવા છતાં મનમાન્યા શાસ્ત્રબોધને આધારે પોતાને કૃતાર્થ માને છે, જ્ઞાની માને છે. ૧૩-૧૪
- હવે જ્ઞાન અને અજ્ઞાનના સ્વામી બતાવતાં કહે છે કે- જેનામાં સમ્યગદર્શન હોય, એના