________________
૧૫)
ષોડશક પ્રકરણ - ૧૧ द्वितीये चिन्तामये ज्ञाने चिन्तायोगाद् अतिसूक्ष्मसुयुक्तिचिन्तनसम्बन्धात् कदाचिदपि काले न भवति । दृष्टनयप्रमाणरूप-सिद्धान्त-सद्भावो हि विद्वान् सर्वं स्वपरतन्त्रोक्तमर्थं स्थानाविरोधेन प्रतिपद्यते नत्वेकान्ततस्तत्र विप्रतिद्यत इति । तथा चाह सम्मतौ महामतिः -
'णियय-वयणिज्ज-सच्चा, सव्वणया परवियालणे मोहा । ते पुण अदिट्ठ-समओ, विभयह सच्चे व अलिए व--- ॥१०॥ [निजक- वचनीय - सत्याः सर्वनयाः परविचालने मोहाः ।
तान् पुनरदृष्ट-समयो, विभजति सत्यान् वाऽलीकान् वा ॥] चारीत्यादि । चारेश्वरको-भक्षयिता सञ्जीवन्या औषधेश्च अचरकोऽनुपभोक्ता तस्य चारणं-अभ्यवहरणं तस्य विधानतो दृष्टान्तात्, चरमे भावनामये ज्ञाने सति सर्वत्र-सर्वजीवेषु हिता-हितहेतुर्वृत्तिः प्रवृत्तिर्न तु कस्यचिदहिता, समरसापत्त्या सर्वतन्त्रसमूहरूपस्वसमयव्युत्पत्तिकृत-सर्वानुग्रहपरिणत्या गाम्भीर्याद्-गम्भीराशयात् ।
दृष्टान्तश्चायं-काचित् स्त्री स्वपतिवशीकाराय काञ्चित्पब्रिाजिकां तदुपायमपृच्छत्, तया च किल कुतश्चित्सामर्थ्यात्स वृषभः कृतः, तं चारयन्ती पाययन्ती चाऽऽस्ते । अन्यदा च वटवृक्षस्याधस्तान्निषण्णे तस्मिन् पुरुषगवे विद्याधरीयुग्मं विहायसस्तत्राजगाम । तत्रैकयोक्तं 'अयं स्वाभाविको न गौः', द्वितीययोक्तं 'कथं तर्हि स्वाभाविकः स्याद् ?' आद्ययोक्तं 'अस्य वटस्याधस्तात्सञ्जीवनीनामौषधिरस्ति यदि तामयं चरेत्तदा सहजपुरूपतामासादयेद्' इति । तच्च विद्याधरीवचनं तया स्त्रिया श्रोत्रपत्राभ्यां पपे। तां चौषधि विशेषतोऽजानानया सर्वामेव तत्प्रदेशस्थां चारिं चारित: सामान्यतः पतिगवः, यावदसौ सञ्जीवनीमुपभुक्तवांस्तावदेव पुरुषः संवृत्तः । यथा तस्याः स्त्रियास्तस्मिन् पुंगवे हिता प्रवृत्तिरेवं भावनाज्ञानान्वितस्यापि सर्व-भव्यसार्थेऽनुग्रहप्रवृत्तस्य हितैव प्रवृत्तिरिति ॥११॥
गुर्वादिविनयरहितस्य यस्तु मिथ्यात्व-दोषतो वचनात् । दीप इव मण्डलगतो बोधः स विपर्ययः पापः ॥१२॥ दण्डीखण्डनिवसनं भस्मादिविभूषितं सतां शोच्यम् ।
पश्यत्यात्मानमलं ग्रही नरेन्द्रादपि ह्यधिकम् ॥१३॥ (૨) ચિંતામયજ્ઞાનમાં અતિસૂક્ષ્મ, સચોટ અને સુંદર યુક્તિઓ પૂર્વકનું ચિંતન હોવાથી પોતાના દર્શનનો આગ્રહ હોતો નથી. પરન્તુ નય અને પ્રમાણથી વસ્તુતત્ત્વનું જ્ઞાન કરનાર, બુદ્ધિમાન, વિદ્વાન સ્વ-પર સકળશાસ્ત્રમાં કહેલી યુક્તિયુક્ત વાતોને હંમેશ સ્વીકારે છે. ૧૦
(૩) ભાવનામય જ્ઞાનમાં ચારિચરક સંજીવની અચરક ચારણ ન્યાયથી, ગાંભીર્ય તેમજ સર્વજીવોના અનુગ્રહથી ઈચ્છારૂપ સમરસાપત્તિથી સર્વજીવોનું હિત કરવાની વૃત્તિ રહેલી હોય છે. કોઈના પણ અહિતની ભાવના હોતી નથી. દગંત પ્રસિદ્ધ હોવાથી ભાવાનુવાદ લીધો નથી. ૧૧