________________
ષોડશક પ્રકરણ - ૧૧
(१४७ दर्शनं शोभनमन्यदीयमशोभनं' इत्येवंरूपः। द्वितीये चिन्तायोगाद्अतिसूक्ष्मसुयुक्तिचिन्तनसम्बन्धात्कदाचिदपि काले। नयप्रमाणाधिगमसमन्वितो हि विद्वान् प्रेक्षावत्तया स्वपरतन्त्रोक्तं न्यायबलायातमर्थं सर्वं प्रतिपद्यते, तेनास्य दर्शनग्रहो न भवति ॥१०॥
चारीत्यादि । चारेश्चरको-भक्षयिता सञ्जीवन्या-औषधेः अचरकः-अनुपभोक्ता तस्य चारणं-अभ्यवहरणं तस्य विधान-सम्पादनं तस्माच्चारिचरकसञ्जीवन्यचरकचारणविधानतः चरणे-भावनामयज्ञाने सति सर्वत्र-सर्वेषु जीवेषु हिता वृत्तिःहितहेतुः प्रवृत्तिः, न कस्यचिदहिता, गाम्भीर्याद्-आशयविशेषात् समरसापत्त्यासर्वानुग्रहणरूपया।
__ कयाचित् स्त्रिया कस्यचित्पुरुषस्य वशीकरणार्थं परिवाजिकोक्ता, यथा 'इमं मम वशवर्तिनं वृषभं कुरु' तया च किल कुतश्चित्सामर्थ्यात् स वृषभः कृतः, तं चारयन्ती पाययन्ती चास्ते, अन्यदा च वटवृक्षस्याधस्तान्निषण्णे तस्मिन् पुरुषगवे विद्याधरीयुग्ममाकाशगमागमत्, तत्रैकयोक्तं-'अयं स्वाभाविको न गौः', द्वितीययोक्तं 'कथमयं स्वाभाविको भवति ?', तत्राद्ययोक्तं-'अस्य वटस्याधस्तात्सञ्जीवनीनामौषधिरस्ति, यदि तां चरति तदाऽयं स्वाभाविक: पुरुषो जायते,' तच्च विद्याधरीवचनं तया स्त्रिया समाकणितं, तया चौषधि विशेषतोऽजानानया सर्वामेव चारिं तत्प्रदेशवर्तिनी सामान्येनैव चारितः यावत्सञ्जीवनीमुपभुक्तवान्, तदुपभोगानन्तरमेवासौ पुरुषः संवृत्तः" एवमिदं लौकिकमाख्यानकं श्रूयते । यथा तस्याः स्त्रियास्तस्मिन् पुरुषगवे हिता प्रवृत्तिः, एवं भावनाज्ञानसमन्वितस्यापि सर्वत्र भव्यसमुदायेऽनुग्रहप्रवृत्तस्य हितैव प्रवृत्तिरिति ॥११॥
: योगदीपिका : एतेषां त्रयाणां विषयविभागमाह - आद्य इत्यादि, चारीत्यादि ।
आधे-श्रुतज्ञाने इह-जगति मनाग-ईषत्पुंसस्तद्वतः पुरुषस्य तदागात्श्रुतमयज्ञानानुरागाद्दर्शनग्रहो-असत्यपक्षपातो भवति यथा 'इदं मयोक्तमिदमेव च प्रमाणं न्यायाद्' इति, असौ दर्शनग्रहो 'अस्मदीयं दर्शनं शोभनमन्यदीयमशोभनम्' इत्येवंरूपो
હવે શ્રુતમય, ચિંતામય અને ભાવનામય ઃ આ ત્રણ જ્ઞાનના વિષય વિભાગને તથા તે જ્ઞાનોનાં ફળને શાસ્ત્રકાર ભગવંત બે શ્લોકમાં બતાવે છે.
(૧) શ્રુતમય જ્ઞાનવાળા આત્માને, શ્રુતજ્ઞાનમાં કંઈક અનુરાગને કારણે પોતાના દર્શનની - धनी ५४3 °४न्भी छ. .d. "ममा शाखमा भाj सरस (छ. ॥ ४ सायुं छे, બીજું સાચું નથી.” આવી પકડ એને શ્રુતજ્ઞાનથી થઈ શકે છે.