________________
ષોડશક પ્રકરણ - ૧૧ शेषज्ञानेभ्योऽधिकप्रकाशकारि भवति । अनेन हि ज्ञातं ज्ञातं नाम, क्रियाऽप्येतत्पूर्विकैव मोक्षायाऽक्षेपेण सम्पद्यत इति ॥९॥
: योगदीपिका : शुश्रूषाजन्यानां श्रुतादिज्ञानानां विभागमुपदर्शयति - ऊहेत्यादि ।
ऊहादिना रहितमाद्यं ज्ञानं श्रुतज्ञानसंज्ञं भवेद् । ऊहो-वितर्कः आदिनाऽपोहादि, तद्युक्तमूहादियुक्तं, मध्यमं चिन्तामयं भवेद् ज्ञानं द्वितीयम् । चरमं-भावनामयं तृतीयं हितकरणं फलं यस्य तत्तथा, अन्य-एतद्-ज्ञानत्रयाद्भिन्नो बोधो विपर्यासो मिथ्याज्ञानमितियावद्, मोहतो-मिथ्यात्वमोहनीयोदयात् ।।६।।
तत्र श्रुतज्ञानस्य लक्षणमाह-वाक्यार्थेत्यादि।
वाक्यार्थः प्रकृतवाक्यैकवाक्यतापन्नसकलशास्त्रवचनार्थाविरोधिवचनार्थः, तन्मात्रं प्रमाणनयाधिगमरहितं तद्विषयं -तद् गोचरं न तु परस्परविभिन्नविषयशास्त्रावयवभूतपदमात्रवाच्यार्थविषयं तस्य संशयादिरूपत्वेनाज्ञानत्वात् । कोष्ठकेलोहकोष्ठकादौ गतं स्थितं-यद्वीजं-धान्यं तत्सन्निभमविनष्टत्वात् श्रुतमयं, इह-प्रक्रमे विज्ञेयं मिथ्याभिनिवेशः-असद्ग्रहः तेन रहितं विप्र मुक्तं अलं अत्यर्थं पदार्थज्ञानोत्थापितानुपपत्ति- निरास-प्रधानत्वात् ॥७॥
चिन्तामयज्ञानस्य लक्षणमाह-यत्त्वित्यादि ।
यत्तु यत्पुनर्महावाक्यार्थजं-आक्षिप्तेतरसर्वधर्मात्मकवस्तुप्रतिपादकानेकान्तवादव्युत्पत्तिजनितं, अतिसूक्ष्मा अतिशयित-सूक्ष्मबुद्धिगम्याः शोभना-अविसंवादिन्यो या युक्तयः सर्वप्रमाणनयगर्भाः तच्चिन्तया-तदालोचनयोपेतं सहितं, उदक इव-सलिल इवतैलबिन्दुःतैललवो, विसर्पि-विस्तारयुक्तं, चिन्तया निर्वृत्तं-चिन्तामयं तज्ज्ञानं स्याद् भवेत् ॥८॥ भावनाज्ञानलक्षणमाह-ऐदम्पर्येत्यादि ।
વિરોધી અનંતધર્માત્મક વસ્તુના પ્રતિપાદક સ્યાદ્વાદ સિદ્ધાંતથી પરિકર્મિત, અતિસૂક્ષ્મબુદ્ધિથી સમજી શકાય એવી યુક્તિઓની તેમજ સર્વ પ્રમાણ અને નયથી ગર્ભિત યુક્તિઓની વિચારણાપૂર્વક થતું જ્ઞાન તે ચિંતામય જ્ઞાન. આ જ્ઞાન પાણીમાં ફેલાતા તેલના બિંદુ
४ छ. ८ (૩) ભાવનામય જ્ઞાનનું સ્વરૂપઃ આ જ્ઞાન, વસ્તુના ઐદંપર્ય એટલે કે તાત્પર્યને જાણનારું તથા
સર્વજ્ઞભગવંતની આજ્ઞા જ પ્રધાન છે, એવી સમજવાળું જ્ઞાન એ ભાવનાજ્ઞાન છે. પદાર્થમાત્રનું સ્વરૂપ સર્વજ્ઞ પરમાત્માએ એવું કહ્યું છે તે મુજબ તેનો સ્વીકાર કરવો, એ ભાવનામય જ્ઞાન છે. આ જ્ઞાન