________________
(१४७
ષોડશક પ્રકરણ - ૧૧ ऊहो-वितर्क: ऊहापोह-विज्ञानादिरहितं आय-प्रथमं श्रुतमयं, तद्युक्तं-ऊहादियुक्तं मध्यम-चिन्तामयं भवेत् ज्ञानं-द्वितीयं, चरमं-भावनामयं तृतीयं हितकरणफलमस्येति स्वहितनिर्वर्तनफलं, विपर्ययो-विपर्यासो मिथ्या-ज्ञानंमोहतो-मोहाद् मिथ्यात्त्वमोहनीयोदयाद् ज्ञानत्रयाद् अन्योऽबोध इति ॥६॥
श्रुतमयज्ञानस्य लक्षणमाह-वाक्यार्थेत्यादि ।
सकलशास्त्रगतवचनाविरोधि-निर्णीतार्थवचनं वाक्यं तस्यार्थमात्रंप्रमाणनयाधिगमरहितं तद्विषयं-तद्गोचरंवाक्यार्थ-मात्रविषयं, न तु परस्परविभिन्नविषयशास्त्रावयवभूतपदमात्रवाच्यार्थविषयं, कोष्ठके-लोहकोष्ठकादौ गतं-स्थितं यद् बीजं-धान्यं तत्सन्निभं अविनष्टत्त्वात् कोष्ठकगतबीजसन्निभं ज्ञानं श्रुतमयमिह-प्रक्रमे विज्ञेयं-वेदितव्यं मिथ्याभिनिवेश:-असदभिनिवेशस्तेन रहितं-विप्रमुक्तं अलं-अत्यर्थम् ।।७।। __ चिन्तामयज्ञानस्य लक्षणामाह-यत्तु इत्यादि।
यत्पुनः-महावाक्यार्थजं-आक्षिप्तेतर-सर्वधर्मात्मकवस्तुप्रतिपादकानेकान्तवादविषयार्थजन्यं अतिसूक्ष्मा अतिशय-सूक्ष्मबुद्धिगम्याः शोभना-अविसंवादिन्यो या युक्तयःसर्वप्रमाणनयगर्भाः, तच्चिन्तया-तदालोचनया उपेतं-युक्तं, उदक इव-सलिल इव तैलबिन्दुः-तैललवो विसर्पणशीलं विसर्पि-विस्तारयुक्तम् । चिन्तया निर्वृत्तं चिन्तामयं तज्ज्ञानं स्याद्-भवेत् ॥८॥
भावनाज्ञानलक्षणमाह-ऐदम्पर्यमित्यादि।
ऐदम्पर्यं-तात्पर्य 'सर्वज्ञेयक्रियाविषये सर्वज्ञाऽऽज्ञैव प्रधानं कारणं'इत्येवंरूपं, तदगतंतद्विषयं यज्ज्ञानं विध्यादौ-विधि-द्रव्य-दातृ-पात्रादौ यत्नवत्-परमादरयुक्तं,तथैवोच्चैःऐदम्पर्यवत्त्वापेक्षया यत्नवत्त्वापेक्षया यत्नवत्त्वस्य समुच्चयार्थं तथैवेत्यस्य ग्रहणम् । एतत्तुएतत्पुनर्भावनया निर्वृत्तं भावनामयं-ज्ञानं अशुद्धस्य सद्रत्नस्य-जात्य-रत्नस्य स्वभावत एव क्षार-मृत्पुट-पाकाद्यभावेऽपि भास्वर-रूपस्य या दीप्तिस्तया समं अशुद्ध-सद्रत्नदीप्तिसमम् । यथा हि जात्यरत्नस्य स्वभावत एवान्यरत्नेभ्योऽधिका दीप्तिर्भवति, एवमिदमपि भावनाज्ञानमशुद्धसद्रत्नकल्पस्य भव्यजीवस्य कर्ममल-मलिनस्यापि (૧) શ્રુતમયજ્ઞાનનું સ્વરૂપ માત્ર વાક્યર્થને જાણનારું જ્ઞાન મૃતમયજ્ઞાન છે. સકળ શાસ્ત્રનાં
વચનોના અવિરોધી અર્થયુક્ત શબ્દોને વાક્ય કહેવાય. એ વાક્યોનો માત્ર અર્થ કરનારું અને પ્રમાણ તથા નયથી રહિત જ્ઞાન તે શ્રુતમયજ્ઞાન. આ જ્ઞાન કોઠી-કોઠારમાં રહેલાં બીજ જેવું તેમજ મિથ્યા અભિનિવેશથી
તદ્દન રહિત અર્થાત ખોટી પકડ વિનાનું છે. ૭. (૨) ચિંતામય જ્ઞાનનું સ્વરૂપઃ આ જ્ઞાન, મહાવાક્યર્થને જાણનારું હોય છે. પરસ્પર