________________
(૧૩૫)
ષોડશક પ્રક્રણ - ૧૦
: योगदीपिका : वचनासङ्गानुष्ठानयोर्विशेषमाह-चक्रेत्यादि ।
चक्र-भ्रमणं-कुम्भकारचक्रपरावर्तनं दण्डाद्-दण्डसंयोगात्, तदभावे चैव यत्परमन्यद्भवति, वचनाऽसङ्गानुष्ठानयोः प्रस्तुतयोस्तु तदेव ज्ञापकम् उदाहरणं ज्ञेयम्। यथा चक्र-भ्रमणमेकं दण्ड-संयोगात् प्रयत्नपूर्वकाद्भवति, एवं वचनानुष्ठानमप्यागम-संयोगात् प्रवर्तते, यथा चान्यच्चक्र-भ्रमणं दण्ड-संयोगाभावे केवलादेव संस्काराऽपरिक्षयात्सम्भवति, एवमागम-संस्कार-मात्रेण वस्तुतो वचन-निरपेक्षमेव स्वाभाविकत्त्वेन यत्प्रवर्त्तते तदसङ्गानुष्ठानमितीयान् भेद इति भावः ॥८॥
अभ्युदयफले चाये, निःश्रेयस-साधने तथा चरमे । एतदनुष्ठानानां, विज्ञेये इह गतापाये ॥९॥
विवरणम् : एषामेव चतुर्णामनुष्ठानानां फलविभागमाह - अभ्युदयेत्यादि ।
अभ्युदयफले च-अभ्युदय-निर्वर्तके चआद्य-प्रीतिभक्त्यनुष्ठाने, निःश्रेयससाधनेमोक्षसाधने तथा चरमे-वचनासङ्गानुष्ठाने, एतेषामनुष्ठानानां मध्ये विज्ञेये इह-प्रक्रमे गतापाये-अपायरहिते निरपाये ॥९॥
योगदीपिका : एषामेव चतुर्णामनुष्ठानानां फलविभागमाह-अभ्युदयेत्यादि ।
अभ्युदयः-स्वर्गस्तत्फले एवाद्ये प्रीतिभक्त्यनुष्ठाने, निःश्रेयसं-मोक्षस्तत्साधने, तथा चरमे वचनासङ्गानुष्ठाने, एतेषामनुष्ठानानां मध्ये विज्ञेये इह-प्रक्रमे, गतापाये विघ्नरहिते । अत एव पूर्व-संयमः स्वर्गहेतुरपूर्व-संयमश्च मोक्ष-हेतुरिति सिद्धान्तनयः ॥९॥
उपकार्यपकारि-विपाक - वचन - धर्मोत्तरा मता शान्तिः ॥ आद्य - द्वये त्रि - भेदा, चरम - द्वितये द्वि - भेदेति ॥१०॥
જે અનુષ્ઠાન થતું રહે તે અસંગ અનુષ્ઠાન અર્થાત્ વચન અનુષ્ઠાન આગમવચનના આધારે થાય છે. અસંગ અનુષ્ઠાન વારંવાર સેવાતા વચન અનુષ્ઠાનમાં પડેલા આગમના સંસ્કારથી થાય છે. વચન અનુષ્ઠાન અને અસંગ અનુષ્ઠાનમાં આ તફાવત છે. ૮
હવે આ ચારે અનુષ્ઠાનોનું ફળ બતાવે છે.
પ્રીતિ અનુષ્ઠાન અને ભક્તિ અનુષ્ઠાનનું ફળ અભ્યદય છે. એટલે કે એ બે અનુષ્ઠાનનાં ફળરૂપે મનુષ્યલોક અને દેવલોકનાં ભૌતિક સુખો મળે છે. છેલ્લાં બે અનુષ્ઠાન - વચન અને અસંગ અનુષ્ઠાનો વિધ્વરહિત છે અને મોક્ષફળને આપનારાં છે. ૯