________________
ષોડશક પ્રકરણ - ૭
C :: योगदीपिका : ईदृग्विधिनाऽन्यथा च बिम्बकारणस्य नाम-भेदं फल-भेदं चाभिधित्सुराहएवमित्यादि।
__एवंविधेनाशयेन प्रागुक्तेन यबिम्बकारणम् तत्समयविदः-शास्त्रज्ञाः 'लोकोत्तरमन्यदतो लौकिकमभ्युदयसारं च' लोकोत्तरमागमिकमन्यदतो (लोकोत्तरं
आगमिकं वदन्ति अतोऽस्मादन्यद् विपरीतं लोकिकं वदन्ति अभ्युदयसारं च तद्भवति विषयविशेषात् इति प्रत्यन्तरे) लौकिकमतो अस्मादाशयविशेष-समन्वितात् जिनबिम्बकारणादन्यद्-लौकिकं वर्त्तते अभ्युदयसारं च तद्भवति ॥१४॥
लोकोत्तरं तु निर्वाणसाधकं परमफलमिहाश्रित्य । अभ्युदयोऽपि हि परमो भवति त्वत्रानुषङ्गेण ॥१५॥
::विवरणम् : 'लौकिकमभ्युदयसारम्' इत्युक्तं, लोकोत्तरं तु कीदृगित्याह - लोकोत्तरमित्यादि।
लोकोत्तरं पुनः निर्वाणसाधकं-मोक्षसाधकं परमफलमिहाश्रित्य-प्रकृष्टफलमङ्गीकृत्य अभ्युदयोऽपि-स्वर्गादिः परमः-प्रधानो भवति त्वत्रानुषङ्गेण भवत्येवात्र प्रसङ्गेन, न मुख्यवृत्त्या ॥१५॥
: योगदीपिका: लौकिकमभ्युदयसारमित्युक्तं लोकोत्तरं तु कीदृगित्याह-लोकेत्यादि ।
लोकोत्तरंतु-पुननिर्वाणसाधकं परमं- मुख्योद्देश्यंफलमिहाश्रित्य,अभ्युदयोऽपि हि स्वर्गादि: परमः-प्रधानः भवति तु भवत्येव, अत्रानुषङ्गेण उद्देश्यसिद्धौ अवर्जनीयभावव्यापार-लक्षणेन ॥१५॥
कृषिकरण इव पलालं नियमादत्रानुषङ्गिकोऽभ्युदयः । फलमिह धान्यावाप्तिः परमं निर्वाणमिव बिम्बात् ॥१६॥
विवरणम् : प्रधानानुषङ्गिकप्रतिपत्त्यर्थं दृष्टान्तमाह - कृषीत्यादि ।
મળે. લોકોત્તર ધર્મની આરાધનાઓનું મુખ્ય ફળ મોક્ષ છે. ગૌણફળ સ્વર્ગાદિક સુખોની પ્રાપ્તિ छ. १५
આ મુખ્ય અને ગૌણફળ સમજવા માટે દષ્ટાંત આપે છે કે –
ખેતીમાં જેમ ધાન્યની પ્રાપ્તિ મુખ્ય ફળ છે. ઘાસની પ્રાપ્તિ ગૌણફળ છે; એમ અહીં લોકોત્તર રીતે જિનબિંબ ભરાવવાનું મુખ્ય ફળ નિર્વાણની પ્રાપ્તિ છે. ગૌણ ફળ સ્વર્ગાદિ સુખોની