________________
ષોડશક પ્રકરણ - ૭
: विवरणम् : ननु च रत्नकनकादिभिः सुरूपमहाबिम्बकरणे विशिष्टं फलमाहोस्वित् परिणामविशेषादित्याशङ्कयाह-बिम्बमित्यादि ।
बिम्बं-प्रतिमारूपं महत् प्रमाणत: सुरूपं-विशिष्टाङ्गावयव-सन्निवेश-सौन्दर्य कनकादिमयं च-(सुवर्ण) रत्नादिमयं च यः खलु विशेषो बाह्यवस्तुगतः नास्मात्फलं विशिष्टम् अस्मादेव विशेषान्न फलविशेषो-न फलमधिकं, नैतदविनाभावि फलमित्यर्थः। भवति तु-भवत्येवतद्-विशिष्टं फलम्इह-प्रक्रमे आशयविशेषाद्, यत्र भावोऽधिकस्तत्र फलमप्यधिकमिति हृदयम् ॥१२॥
योगदीपिका : ननु किं रत्न-कनकादि-बिम्बकरणे विशिष्टं फलमाहोस्वित् परिणामविशेषादिति जिज्ञासायामाह- बिम्बमित्यादि।
बिम्बं प्रतिमारूपं महत्प्रमाणतः सुरूपं-विशिष्टाङ्गावयव-सन्निवेशसौन्दर्य कनकादिमयं च-सुवर्णरत्नादिमयं, यः खल्वयं विशेषो बाह्यवस्तुगतो नास्माद्विशिष्टं फलं (भवति प्र.) बाह्य-वस्तु-विशेषानुविधायी न फलविशेष इत्यर्थः । तु-पुनस्तद्विशिष्टं फलम् इह प्रक्रमे आशय-विशेषाद् । यत्र भावोऽधिकस्तत्र फलमप्यधिकमिति हृदयम्। भावविशेषाधायकतया च बाह्य-विशेषोऽप्याद्रियत एव । तदुक्तं व्यवहारभाष्ये
"लक्खणजुत्ता पर्डिमा पासाईआ समत्तलंकारा । पहलायइ जह व मणं तह णिज्जरमो वियाणाहि" इति ॥१२॥ (लक्षणयुक्ता प्रतिमा प्रासादिका समस्तालङ्कारा । प्रह्लादयति यथा वा मनस्तथा निर्जरा विजानीहि ।।) आगम-तन्त्रः सततं तद्वद्भक्त्यादि-लिङ्ग-संसिद्धः । चेष्टायां तत्स्मृतिमान् शस्तः खल्वाशयविशेषः ॥१३॥
છે. વ્યવહારથી થતી બાહ્ય વસ્તુઓનો પણ શાસ્ત્રકાર ભગવંતોએ સ્વીકાર કર્યો છે. વ્યવહાર ભાષ્યમાં કહ્યું છે કે – પ્રતિમા લક્ષણયુક્ત હોય, આભૂષણોથી શોભતી હોય, જોતાં જ મનને આનંદ આપનારી હોય, એના દર્શનથી જેમ જેમ મન પ્રસન્ન બને; તેમ તેમ કર્મનો ક્ષય થાય, એમ જાણવું. ૧૨
ભાવવિશેષથી ફળ વિશેષની પ્રાપ્તિ થાય, એમ કહ્યું. તેથી સારા ભાવનું સ્વરૂપ बतावे छे.
જે ભાવ આગમાનુસારી હોય, આગમધર પુરુષો પ્રત્યે હંમેશ - સતત ભક્તિ - બહુમાન, વિનય, પૂજન આદિથી યુક્ત હોય અને દરેક પ્રવૃત્તિમાં આગમવચનોનાં સ્મરણવાળો હોય તે